शतं सहस्रं संख्यातो मेरुर्द्विगुणितं पुनः। ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डलात् ।। ३९.
ताराग्रहाणां सर्व्वेषामधस्ताच्चरते बुधः। तस्योर्द्ध्वञ्चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ।। ३९.
ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः। ऊर्द्ध्वं शतसहस्रन्तु योजनानां शनैश्चरात् ।। ३९.
सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते। ऋषिभिस्तु सहस्राणां शतादूर्द्ध्वं विभाव्यते ।। ३९.
योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके। उत्तानपादपुत्रोऽसौ मेढिभूतो ध्रुवो दिवि ।। ३९.
त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया। मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ।। ३९.
वर्णाश्रमेभ्य इज्या तु लोकेऽस्मिन्या प्रवर्त्तते। सर्वेषां देवयोनीनां स्थितिहेतुः सवै स्मृतः ।। ३९.
त्रैलोक्यमेतद्वयाख्यातमत ऊर्द्ध्वं निबोधत। ध्रुवा दूर्द्ध्वं महर्लोको यस्मिस्ते कल्पवासिनः। एकयोजनकोटी सा इत्येवं निश्चयं गतम् ।। ३९.
द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः। यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ।। ३९.
चतुर्गुणोत्तरादूर्द्ध्वं जनलोकात्तपः स्मृतम्। वैराजा यत्र ते देवा भूतदाहविवर्जिताः ।। ३९.
षड्गुणन्तु तपोलोकात्सत्यलोकान्तरं स्मृतम्। अपुनर्मारकामानां ब्रह्मलोकः स उच्यते ।। ३९.
यस्मान्न च्यवते भूयो ब्रह्माणं स उपासते । एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ।। ३९.
ऊर्द्ध्वं भागस्ततोऽण्डस्य ब्रह्मलोकात्परः स्मृतः। चतुरश्चैव कोट्यस्तु नियुताः पञ्चषष्टि च ।। ३९.
एषोऽर्द्धंशप्रचारोऽस्य गत्यन्तश्चापरः स्मृतः। ध्रवाग्रमेतद्वयाख्यातं योजनाग्राद्यथाश्रुतम् ।। ३९.
अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम्। गच्छन्ति घोरकर्म्माणः प्राणिनो यत्र कर्म्मभिः ।। ३९.
नरको रौरवो रोधः सूकरस्ताल एव च। तप्तकुम्भो महाज्वालः शबलोऽथ विमोचनः ।। ३९.
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः । अधःशिराः पूयवहो रुधिरान्धस्तथैव च ।। ३९.
तथा वैतरणं कृष्णमसिपत्रवनं तथा। अग्निज्वालो महाघोरः संदंशोऽथ श्वभोजनः ।।३९.
तमश्च कृष्णसूत्रश्च लोहश्चाप्यसिजस्तथा। अप्रतिष्ठोऽथ वीच्यश्वनरका ह्येवमादयः ।। ३९.
तामसा नरकाः सर्वे यमस्य विषये स्थिताः। येषु दुष्कृतकर्माणः पतन्तीह पृथक्पृथक् ।। ३९.१५० भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्त्तिताः। रौरवे कूटसाक्षी तु मिथ्या यश्चाभिशंसति। क्रूरग्रहे पक्षवादी ह्यसत्यः पतते नरः ।। ३९.
रोधे गोघ्नो ब्रूणहा च ह्यग्निदाता पुरस्य च। सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।। ३९.
ताले पतेत्क्षत्रियहा हत्वा वैश्यञ्च दुर्गतिम्। ब्रहमहत्याञ्च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।। ३९.
तप्तकुम्भी स्वसागामी तथा राजभटश्च यः। तप्तलोहे चाश्ववणिक्तथा बन्धनरक्षिता ।। ३९.
साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत्। महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ।। ३९.
वेदो विक्रीयते येन वेदं दूषयते च यः। गुरूंश्चैवावमन्यन्ते वाक्क्रोशैस्ताडयन्ति च ।। ३९.
अगम्यगामीच नरो नरकं शबलं व्रजेत्। विमोहे पतिते चौरे मर्यादां यो भिनत्ति वै ।। ३९.
दुरध्वं कुरुते यस्तु कीटलोहं प्रपद्यते। देवब्राह्मणविद्वेष्टा गुरूणाञ्चाप्यपूजकः। रत्नं दूषयते यस्तु कृमिभक्ष्यं प्रपद्यते ।। ३९.
पर्य्यश्नाति य एकोऽन्यो ब्राह्मणीं सुहृदः सुताम्। लालाभक्षे स पतति दुर्गन्धे नरके गतः ।। ३९.
काण्डकर्त्ता कुलालश्च निष्कहर्त्ता चिकित्सकः। आरा मेष्वग्निदाता यः पतते स विशंसने ।। ३९.
असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः। नक्षत्रैर्जीवितो यश्च नरो गच्छत्यधोमुखम् ।। ३९.