एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः। बाष्पपर्य्याकुलाक्षास्तु प्रहर्षाद्घद्घदस्वराः ।। ३९.
पप्रच्छुर्मातरिश्वानं सर्व्वे ते ब्रह्मवादिनः। ब्रह्मलोकस्तु भगवन् यावन्मात्रान्तरः प्रभो ।। ३९.
योजनाग्रेण संख्यातः साधनं योजनस्य तु। क्रोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ।। ३९.
तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक्। उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ।। ३९.
वायुरुवाच।। एतद्वोऽहं प्रवक्ष्यामि श्रृणुध्वं मे विवक्षितम्। अव्यक्ताद्व्यक्तभागो वै महास्थूलो विभाष्यते ।। ३९.
दशैव महतां भागा भूतादिः स्थूल उच्यते। दशभागाधिकं चापि भूतादिः परमाणुकः ।। ३९.
परमाणुः सुसूक्ष्मस्तु बावग्राह्यो न चक्षुषा। यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ।। ३९.
जालान्तरगतं भानोर्यत्सूक्ष्मं दृश्यते रजः। प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ।। ३९.
अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ।। ३९.
त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः । तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ।। ३९.
बालाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत्। यूकाष्टकं यवं प्राहुरङ्गुलन्तु यवाष्टकम् ।। ३९.
द्वादशाङ्गुलपर्व्वाणि वितस्तिस्थानमुच्यते। रत्निश्चाङ्गुलपर्वाणि विज्ञेयो ह्येकविंशतिः ।। ३९.
चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु। किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ।। ३९.
षण्णवत्यङ्गुलञ्चैव धनुराहुर्मनीषिणः। एतद्गव्यूतिसंख्यायां पादानां धनुषः स्मृतः ।। ३९.
धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः। धनुषस्त्रिशतं नल्वमाहुः संख्याविदो जनाः ।। ३९.
धनुःसहस्रे द्वे चापि गव्यूतिरुपदिश्यते। अष्टौ धनुःसहस्राणि योजनन्तु विधीयते ।। ३९.
एतेन धनुषा चैव योजनं तु समाप्यते। एतत्सहस्रं विज्ञेयं शक्रक्रोशान्तरन्तथा ।। ३९.
योजनानान्तु संख्यातं संख्याज्ञानविशारदैः। एतेन योजनाग्रेण श्रृणुध्वं ब्रह्मणोऽन्तरम् ।। ३९.
महीतलात्सहस्राणां शतादूर्द्ध्वं दिवाकरः। दिवाकरात्सहस्रेण तावदूर्द्ध्वं निशाकरः ।। ३९.
पूर्णं शतसहस्रन्तु योजनानां निशाकरात्। नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।। ३९.
शतं सहस्रं संख्यातो मेरुर्द्विगुणितं पुनः। ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डलात् ।। ३९.
ताराग्रहाणां सर्व्वेषामधस्ताच्चरते बुधः। तस्योर्द्ध्वञ्चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ।। ३९.
ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः। ऊर्द्ध्वं शतसहस्रन्तु योजनानां शनैश्चरात् ।। ३९.
सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते। ऋषिभिस्तु सहस्राणां शतादूर्द्ध्वं विभाव्यते ।। ३९.
योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके। उत्तानपादपुत्रोऽसौ मेढिभूतो ध्रुवो दिवि ।। ३९.
त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया। मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ।। ३९.
वर्णाश्रमेभ्य इज्या तु लोकेऽस्मिन्या प्रवर्त्तते। सर्वेषां देवयोनीनां स्थितिहेतुः सवै स्मृतः ।। ३९.
त्रैलोक्यमेतद्वयाख्यातमत ऊर्द्ध्वं निबोधत। ध्रुवा दूर्द्ध्वं महर्लोको यस्मिस्ते कल्पवासिनः। एकयोजनकोटी सा इत्येवं निश्चयं गतम् ।। ३९.
द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः। यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ।। ३९.
चतुर्गुणोत्तरादूर्द्ध्वं जनलोकात्तपः स्मृतम्। वैराजा यत्र ते देवा भूतदाहविवर्जिताः ।। ३९.