अर्बुदं निर्बुदञ्चैव खर्बुदञ्च ततः स्मृतम्। खर्वञ्चैव निखर्वञ्च शङ्कुः पद्मं तथैव च ।। ३९.
समुद्रं मध्यमञ्चैव परार्द्धमपरं ततः। एवमष्टादशैतानि स्थानानि गणनाविधौ ।। ३९.
शतानीति विजानीयात् संज्ञितानि महर्षिभिः। कल्पसंख्या प्रवृत्तस्य परार्द्धं ब्रह्मणः स्मृतम् ।। ३९.
तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिसृज्यते। पर एष परार्द्धञ्च संख्यातः संख्यया मया ।। ३९.
यस्मादस्य परं वीर्यं परमायुः परन्तपः। परा शक्तिः परो धर्म्मः परा विद्या परा धृतिः ।। ३९.
परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च। तस्मात्परतरं भूतं ब्रह्मणोऽन्यन्न विद्यते ।। ३९.
परे स्थितो ह्येष परः सर्वार्थेषु ततः परः। संख्यातस्तु परो ब्रह्मा तस्यार्द्धं तु परार्द्धता ।। ३९.
संख्येयं चाप्यसंख्येयं सततं चापि तं त्रिकम्। संख्येयं संख्यया दृष्टमपारार्द्धाद्विभाष्यते ।। ३९.
राशौ दृष्टे न संख्यास्ति तदसंख्यस्य लक्षणम्। आनन्त्यं सिकताख्येषु दृष्टवान् पञ्चलक्षणम् ।। ३९.
ईश्वरैस्तत्प्रसंख्यातं शुद्धत्वाद्दिव्यदृष्टिभिः। एवं ज्ञानप्रतिष्ठत्वात् सर्व्वं ब्रह्मानुपश्यति ।। ३९.
एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः। बाष्पपर्य्याकुलाक्षास्तु प्रहर्षाद्घद्घदस्वराः ।। ३९.
पप्रच्छुर्मातरिश्वानं सर्व्वे ते ब्रह्मवादिनः। ब्रह्मलोकस्तु भगवन् यावन्मात्रान्तरः प्रभो ।। ३९.
योजनाग्रेण संख्यातः साधनं योजनस्य तु। क्रोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ।। ३९.
तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक्। उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ।। ३९.
वायुरुवाच।। एतद्वोऽहं प्रवक्ष्यामि श्रृणुध्वं मे विवक्षितम्। अव्यक्ताद्व्यक्तभागो वै महास्थूलो विभाष्यते ।। ३९.
दशैव महतां भागा भूतादिः स्थूल उच्यते। दशभागाधिकं चापि भूतादिः परमाणुकः ।। ३९.
परमाणुः सुसूक्ष्मस्तु बावग्राह्यो न चक्षुषा। यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ।। ३९.
जालान्तरगतं भानोर्यत्सूक्ष्मं दृश्यते रजः। प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ।। ३९.
अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ।। ३९.
त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः । तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ।। ३९.
बालाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत्। यूकाष्टकं यवं प्राहुरङ्गुलन्तु यवाष्टकम् ।। ३९.
द्वादशाङ्गुलपर्व्वाणि वितस्तिस्थानमुच्यते। रत्निश्चाङ्गुलपर्वाणि विज्ञेयो ह्येकविंशतिः ।। ३९.
चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु। किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ।। ३९.
षण्णवत्यङ्गुलञ्चैव धनुराहुर्मनीषिणः। एतद्गव्यूतिसंख्यायां पादानां धनुषः स्मृतः ।। ३९.
धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः। धनुषस्त्रिशतं नल्वमाहुः संख्याविदो जनाः ।। ३९.
धनुःसहस्रे द्वे चापि गव्यूतिरुपदिश्यते। अष्टौ धनुःसहस्राणि योजनन्तु विधीयते ।। ३९.
एतेन धनुषा चैव योजनं तु समाप्यते। एतत्सहस्रं विज्ञेयं शक्रक्रोशान्तरन्तथा ।। ३९.
योजनानान्तु संख्यातं संख्याज्ञानविशारदैः। एतेन योजनाग्रेण श्रृणुध्वं ब्रह्मणोऽन्तरम् ।। ३९.
महीतलात्सहस्राणां शतादूर्द्ध्वं दिवाकरः। दिवाकरात्सहस्रेण तावदूर्द्ध्वं निशाकरः ।। ३९.
पूर्णं शतसहस्रन्तु योजनानां निशाकरात्। नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।। ३९.