ऋषय ऊचुः।। वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः। तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ।। ३९.
तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित्। सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत् ।। ३९.
ततः प्राप्यन्त ते सर्व्वे शुद्धिशुद्धतमाश्च ये। आभूत संप्लवास्तत्र दश तिष्ठन्ति तेजनाः ।। ३९.
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्त्तयः। स्थितलोकास्थितत्वाच्च तेषां भूतं न विद्यते ।। ३९.
ऊचुः सनत्कुमाराद्याः सिद्धास्ते थोगधर्मिणः। ख्यातिं नैमित्तिकीं तेषां पर्य्याये समुपस्थिते ।। ३९.
स्थानत्यागे मनश्चापि युगपत्संप्रवर्त्तते। ऊचुः सर्व्वे तदान्योऽन्यं वैराजाञ्छुद्धबुद्धयः ।। ३९.
एवमेव महाभागाः प्रणवं सम्प्रविश्य ह। ब्रह्मलोके प्रवर्त्तानस्तन्नः श्रेयो भविष्यति ।। ३९.
एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः। योजयित्वा तदा सर्व्वे वर्त्तन्ते योगधर्म्मिणः ।। ३९.
तत्रैव सम्प्रलीयन्ते शान्ता दीपार्चिषो यथा। ब्रह्मकायमवर्त्तन्त पुनरावृत्तिदुर्ल्लभम् ।।. ३९.
लोकं तं समनुप्राप्य सर्व्वे ते भावनामयम्। आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वाय ते गताः ।। ३९.
वैराजेभ्यस्तथैवोर्द्ध्वमन्तरे षड्गुणे ततः। ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ।। ३९.
ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा। आनन्दं ब्रह्मणः प्राप्यामृतत्वञ्च भजन्त्युत ।। ३९.
द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्ज्जिताः। आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ।। ३९.
प्रभावविजयैश्वर्य्यस्थितिवैराग्यदर्शनैः। तेब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्त्तनीम् ।। ३९.
ब्रह्मणा सह देवैश्च सम्प्राप्ते प्रतिसञ्चरे। तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः। अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ।। ३९.
इत्येतदमृतं शुक्रं नित्यमक्षयमव्ययम्। देवर्षयो ब्रह्मसत्रं सनातनमुपासते ।। ३९.
अपुनर्मार्गगादीनां तेषां चैवोर्द्ध्वरेतसाम् । कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यते ।। ३९.
तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते। हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ।। ३९.
वीतरागा जितक्रोधाः निर्मोहाः सत्यवादिनः। शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ।। ३९.
निःसङ्गाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः । अकामयुक्तैर्ये वीरास्तपोभिर्द्दग्धकिल्बिषाः। तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ।। ३९.
एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम्। गत्वा न यत्र शोचन्ति ह्यमरा ब्रह्मणा सह ।। ३९.
ऋषय ऊचुः।। कस्मादेष परार्द्धश्च कश्चैष पर उच्यते। एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ।। ३९.
सूत उवाच।। श्रृणुध्वं मे परार्द्धञ्च परिसंख्यां परस्य च। एवं दश शतञ्चैव सहस्रञ्चैव सङ्ख्यया ।। ३९.
विज्ञेयमासहस्रन्तु सहस्राणि दशायुतम्। एकं शतसहस्रन्तु नियुतं प्रोच्यते बुधैः ।। ३९.
तथा शतसहस्राणामर्बुदं कोटिरुच्यते। अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ।। ३९.
सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः। दशकोटिसहस्राणि निखर्वमिति तं विदुः ।। ३९.
शतं कोटिसहस्राणां सङ्कुरित्यभिधीयते। कोटि सहस्र स्राणां कोटीनां दशधा पुनः। गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ।। ३९.
कोटीनां सहस्रमयुतमित्ययं मध्य उच्यते। कोटि सहस्र नियुता स चान्त इति संज्ञितः ।। ३९.
कोटिकोटिसहस्राणिं परार्द्ध इति कीर्त्यते । परार्द्धद्विगुणञ्चापि परमाहुर्मनीषिणः ।। ३९.
शतमाहुः परिदृढं सहस्रं परिपद्मकम्। विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ।। ३९.