पूर्वं ते संप्रसूयन्ते ब्रह्मणो मनसा इह। ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ।। ३९.
कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै। भूरा दिषु महान्तेषु भृशं व्याप्तेष्वथाग्निना ।। ३९.
शिखा संवर्त्तका ज्ञेया प्राप्नुवन्ति सदा जनाः। यामादयो गणाः सर्वे महर्लोकनिवासिनः ।। ३९.
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते। सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ।। ३९.
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्त्तिधरास्तथा । जन लोके विवर्त्तन्ते यावत्संप्लवते जगत् ।। ३९.
व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः। अहरादौ प्रसूयन्ते पूर्ववत्क्रमशास्त्विह ।। ३९.
स्वायम्भुवादयः सर्वे मरीच्यन्तास्तु साधकाः। देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ।। ३९.
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः। पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चचिमास्तथा। देवान्वये देवता हि सप्त सम्भूतयः स्मृताः। व्यतीताः कल्यजास्तेषां तिस्रः शिष्टास्तथा परे ।। ३९.
आवर्त्तमाना देवास्ते क्रमेणैते न सर्व्वशः। गत्वा जवन्तवीभावन्दशकृत्वः पुनः पुनः ।। ३९.
ततस्ते वै गणाः सर्व्वे दृष्ट्वा भावेष्वनित्यताम्। भाविनोऽर्थस्य च बलात् पुण्याख्यातिबलेन च ।। ३९.
निवृत्तवृत्तयः सर्वे स्वस्थाः सुमनसस्तथा। वैराजे तूपपद्यन्ते लोकमुत्सृज्य तज्जनम् ।। ३९.
ततोऽन्येनैव कालेन नित्ययुक्तास्तपस्विनः। कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ।। ३९.
ईहोत्पन्नास्ततस्ते वै स्थाना आपूरयन्त्युत। देवत्वे च ऋषित्वे च मनुष्यन्वे च सर्वशः ।। ३९.
एवं देवगणाः सर्वे दशकृत्वो निवर्त्त्य वै। वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ।। ३९.
पूर्णे पूर्णे ततः कल्पे स्थित्वा वैराजके पुनः। ब्रह्मलोके विवर्त्तंते पूर्व्वपूर्व्वक्रमेण तु ।। ३९.
एतस्मिन् ब्रह्मलोके तु कल्पे वैराजके गते। वैराजं पुनरप्येके कल्पस्थानमकल्पयन् ।। ३९.
एवं पूर्व्वानुपूर्व्येण ब्रह्मलोकगतेन वै। एवं तेषु व्यतीतेषु तपसा परिकल्पिते। वैराजे तूपपद्यन्ते दशकृत्वो निवर्त्तते ।। ३९.
एवं देवयुगानीह व्यतीतानि सहस्रशः। निधनं ब्रह्मलोके तु गतानामृषिभिः सह ।। ३९.
सूत उवाच।. न शक्यमानुपूर्वेण तेषां वक्तुं प्रविस्तरम्। अनादित्वाच्च कालस्य ह्यसं ख्यानाच्च सर्वशः। एवमेव न सन्देहो यथावत्कथितं मया ।। ३९.
तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः। सूतमाहुः पुराणज्ञं व्यासशिष्यं महा मतिम् ।। ३९.
ऋषय ऊचुः।। वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः। तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ।। ३९.
तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित्। सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत् ।। ३९.
ततः प्राप्यन्त ते सर्व्वे शुद्धिशुद्धतमाश्च ये। आभूत संप्लवास्तत्र दश तिष्ठन्ति तेजनाः ।। ३९.
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्त्तयः। स्थितलोकास्थितत्वाच्च तेषां भूतं न विद्यते ।। ३९.
ऊचुः सनत्कुमाराद्याः सिद्धास्ते थोगधर्मिणः। ख्यातिं नैमित्तिकीं तेषां पर्य्याये समुपस्थिते ।। ३९.
स्थानत्यागे मनश्चापि युगपत्संप्रवर्त्तते। ऊचुः सर्व्वे तदान्योऽन्यं वैराजाञ्छुद्धबुद्धयः ।। ३९.
एवमेव महाभागाः प्रणवं सम्प्रविश्य ह। ब्रह्मलोके प्रवर्त्तानस्तन्नः श्रेयो भविष्यति ।। ३९.
एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः। योजयित्वा तदा सर्व्वे वर्त्तन्ते योगधर्म्मिणः ।। ३९.
तत्रैव सम्प्रलीयन्ते शान्ता दीपार्चिषो यथा। ब्रह्मकायमवर्त्तन्त पुनरावृत्तिदुर्ल्लभम् ।।. ३९.
लोकं तं समनुप्राप्य सर्व्वे ते भावनामयम्। आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वाय ते गताः ।। ३९.