आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा। ऋषयोऽङ्गिरसश्चैव भुवर्ल्लोकं समाश्रिताः ।। ३९.
एते वैमानिका देवास्ताराग्रहनिवासिनः। इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः ।। ३९.
भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः। आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ।। ३९.
शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः। महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ।। ३९.
भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः। तान् सर्वान् सप्त सूर्यास्ते अर्च्चिर्भिर्निदहन्ति वै ।। ३९.
मरीचिः कश्यपो दक्षस्तथा स्वायम्भुवोऽङ्गिराः । भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ।। ३९.
प्रजानां पतयः सर्वे वर्त्तन्ते तत्र तैः सह। निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्ध्वरेतसः ।। ३९.
ऋभुः सनत्कुमाराद्या वैराज्यास्ते तपोधनाः। मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः । चतुर्द्दशानां सर्वेषां पुनरावृत्तिहेतवः ।। ३९.
योगं तपश्च सत्यञ्च समाधाय तदात्मनि। षष्ठे काले निवर्त्तन्ते तत्तदाहर्विपर्यये ।। ३९.
सत्यन्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम्। ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।। ३९.
पर्यासपारिमाण्येन भूर्लोकः समितिः स्मृतः । भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ।। ३९.
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः। ध्रुवाज्जनान्तरं यच्च महर्लोकस्तदुच्यते ।। ३९.
विख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः। भूर्लोकवासिनः सर्वे ह्यन्नादास्तु रमात्मकाः ।। ३९.
भुवे स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते। चतुर्थे येऽपि वर्त्तन्ते मह र्लोकं समाश्रिताः ।। ३९.
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा। सद्यश्चोत्पद्यते तेषां मनसा सर्व्वमीप्सितम् ।। ३९.
एते दैवा यजन्ते वै यज्ञैः सर्वैः परस्परम्। अतीतान् वर्तमानांश्च वर्त्तमानाननागतान् ।। ३९.
प्रथमानन्तरैरिष्ट्वा ह्यन्तराः साम्प्रतैः पुनः। निवर्त्ततीत्यासम्बन्धोऽतीते देवगणे ततः ।। ३९.
विनिवृत्ताधिकाराणां सिद्धिस्तेषान्तु मानसी। तेषान्तु मानसी ज्ञेया शुद्धा सिद्धिपरम्परा ।। ३९.
उक्ता लोकाश्च चत्वारो जनस्यानुविधिस्तथा। समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ।। ३९.
वायुरुवाच।। मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः। पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ।। ३९.
पूर्वं ते संप्रसूयन्ते ब्रह्मणो मनसा इह। ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ।। ३९.
कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै। भूरा दिषु महान्तेषु भृशं व्याप्तेष्वथाग्निना ।। ३९.
शिखा संवर्त्तका ज्ञेया प्राप्नुवन्ति सदा जनाः। यामादयो गणाः सर्वे महर्लोकनिवासिनः ।। ३९.
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते। सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ।। ३९.
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्त्तिधरास्तथा । जन लोके विवर्त्तन्ते यावत्संप्लवते जगत् ।। ३९.
व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः। अहरादौ प्रसूयन्ते पूर्ववत्क्रमशास्त्विह ।। ३९.
स्वायम्भुवादयः सर्वे मरीच्यन्तास्तु साधकाः। देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ।। ३९.
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः। पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चचिमास्तथा। देवान्वये देवता हि सप्त सम्भूतयः स्मृताः। व्यतीताः कल्यजास्तेषां तिस्रः शिष्टास्तथा परे ।। ३९.
आवर्त्तमाना देवास्ते क्रमेणैते न सर्व्वशः। गत्वा जवन्तवीभावन्दशकृत्वः पुनः पुनः ।। ३९.
ततस्ते वै गणाः सर्व्वे दृष्ट्वा भावेष्वनित्यताम्। भाविनोऽर्थस्य च बलात् पुण्याख्यातिबलेन च ।। ३९.