वायुरुवाच।। चतुर्द्दशैव स्थानानि वर्णितानि महर्षिभिः। लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ।। ३९.
सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै। भूरादयस्तु सङ्ख्याताः सप्त लोकाः कृतास्त्विह ।। ३९.
अकृतानि तु सप्तैव प्राकृतानि तु यानि वै। स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ।। ३९.
पृथिवीं चान्तरिक्षं च दिव्यं यच्च महः स्मृतम्। स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ।। ३९.
क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते। यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवम् ।। ३९.
जनस्तपश्च सत्यञ्च स्थानान्येतानि त्रीणि तु। ऐकान्तिकानि सत्त्वानि तिष्ठन्तीहाप्रसंयमात् ।। ३९.
व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै। भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ।। ३९.
स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः। जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ।। ३९.
सत्यन्तु सप्तमो लोको निरालोकस्ततः परम्। भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ।। ३९.
द्वितीयं भुव इत्युक्त अन्तरिक्षं ततोऽभवत्। तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ।। ३९.
व्याहारैस्त्रिभिरेतैस्तु ब्रह्मलोकमकल्पयत्। ततो भूः पार्थिवो लोक अन्तरिक्षं ततोऽभवत्। तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ।। ३९.
स्वर्लोको वै दिवं ह्येतत्पुराणे निश्चयं गतम्। भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ।। ३९.
वायुर्भुवस्याधिपतिस्तेन वायुर्भुवपतिः। भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ।। ३९.
महेति व्याहृतेनैवं महर्लोकस्ततोऽभवत्। विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ।। ३९.
जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः । तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ।। ३९.
यास्ताः स्वायम्भुवाद्या हि पुरस्तात्परिकीर्त्तिताः। कल्पदग्धे तदा लोके प्रतिष्ठन्ति तदा तपः ।। ३९.
ऋभुः सनत्कुमाराद्या यत्र सन्त्यूर्द्ध्वरेतसः । तपसा भावितात्मानस्तत्र सन्तीति वा तपः ।। ३९.
सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु सः स्मृतः। ब्रह्मलोकस्ततः सत्यं सप्तमः स तु भास्करः ।। ३९.
गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः। सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः। स्वर्लोकवासिनः सर्वे देवा भुविनिवासिनः ।। ३९.
मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ। अनिकेतान्तरिक्षास्ते भुवर्लौक्या दिवौकसः ।। ३९.
आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा। ऋषयोऽङ्गिरसश्चैव भुवर्ल्लोकं समाश्रिताः ।। ३९.
एते वैमानिका देवास्ताराग्रहनिवासिनः। इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः ।। ३९.
भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः। आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ।। ३९.
शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः। महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ।। ३९.
भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः। तान् सर्वान् सप्त सूर्यास्ते अर्च्चिर्भिर्निदहन्ति वै ।। ३९.
मरीचिः कश्यपो दक्षस्तथा स्वायम्भुवोऽङ्गिराः । भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ।। ३९.
प्रजानां पतयः सर्वे वर्त्तन्ते तत्र तैः सह। निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्ध्वरेतसः ।। ३९.
ऋभुः सनत्कुमाराद्या वैराज्यास्ते तपोधनाः। मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः । चतुर्द्दशानां सर्वेषां पुनरावृत्तिहेतवः ।। ३९.
योगं तपश्च सत्यञ्च समाधाय तदात्मनि। षष्ठे काले निवर्त्तन्ते तत्तदाहर्विपर्यये ।। ३९.
सत्यन्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम्। ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।। ३९.