एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः। अह्नाऽनेन तु या संख्या मासर्त्वयनवार्षिकी ।। ३८.
तदा बद्धमिदं ज्ञानं संज्ञा या ह्युपलक्ष्यताम्। कलानां सुपरीमाणात्काल इत्यभिधीयते ।। ३८.
यदहर्ब्रह्मणः प्रोक्तं दिव्या कोटी तु तत् स्मृत। शतानाञ्च सहस्राणि दशद्विगुणतानि च। नवतिञ्च सहस्राणि तथैवान्यानि यानि तु ।। ३८.
एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम्। संस्थासम्भजनं ज्ञानमपृच्छन्नन्तरन्तदा ।। ३८.
संप्लावनस्य कालन्तु मानुषेणैव सम्मतम्। मानेन श्रोतुमिच्छामः संक्षेपार्थपदाक्षरम् ।। ३८.
तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः। संक्षेपाद्दिव्यचक्षुष्मान् प्रोवाच भगवान् प्रभुः ।। ३८.
एते रात्र्यहनी पूर्वं कीर्त्तिते त्विह तौकिके। तासां सङ्ख्याय वर्षाग्रं ब्राह्यं वक्ष्याम्यहःक्षये ।। ३८.
कोटिशतानि चत्वारि वर्षाणि मानुषाणि तु। द्वात्रिंशच्च तथा कोट्यः सङ्ख्याताः सङ्ख्यया द्विजैः ।। ३८.
तथा शतसहस्राणि एकोननवतिः पुनः। आशीतिश्च सहस्राणि एष कालः प्लवस्य तु ।। ३८.
मानुषाख्येण सङ्ख्यातः कालो ह्याभूतसंप्लवः। सप्त सूर्य्यास्तदाऽग्रेषु तदा लोकेषु तेषु वै ।। ३८.
महाभूतेषु लीयन्ते प्रजाः सर्व्वाश्चतुर्विधाः । सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ।। ३८.
विनिवृत्ते च संहारे उपशान्ते प्रजापतौ। निरालोके प्रदग्धे तु नैशेन तु समावृते । ईश्वराधिष्ठिते ह्यस्मिंस्तदा ह्येकार्णवे तदा ।। ३८.२३५ तावदेकार्णवो ज्ञेयो यावदासीदहः प्रभोः । रात्रिस्तु सलिलावस्था निवृत्तौ चाप्यहः समृतम् ।। ३८.
अहोरात्रस्तथैवास्य क्रमेण परिवर्त्तते। आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ।। ३८.
त्रैलोक्ये यानि सत्वानि गतिमन्ति ध्रुवाणि च। आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ।। ३८.
अग्रे भूतः प्रजानान्तु तस्माद्भूतः प्रजापतिः। आभूतः प्लवते चैव तस्मादाभूतसंप्लवः ।। ३८.
शाश्वते चामृतत्वे च शब्दे चाभूतसंप्लवः। अतीता वर्त्तमानाश्च तथैवानागताः प्रजाः। दिव्यसङ्ख्या प्रसङ्ख्याता ह्यपरार्धगुणीकृता ।। ३८.
परार्धद्विगुणञ्चापि परमायुः प्रकीर्त्तितम्। एतावान् स्थितिकालस्तु ह्यजस्येह प्रजामतेः। स्थित्यन्ते प्रतिसर्गस्य ब्रह्मणः परमेष्ठिनः ।। ३८.
यथा वायुप्रवेगेन दीपार्चिरुपशाम्यति। तथैवं प्रतिसर्गेण ब्रह्मा समुपशाम्यति ।। ३८.
तथा ह्यप्रतिसंसृष्टे महदादौ महेश्वरे ३८.
इत्येष च समाख्यातो मया ह्याभूतसंप्लवः। ब्रह्मनैमित्तिको ह्येष संप्रक्षालनसंयमः ।। ३८.
समासेन समाख्यातो भूयः किं वर्त्तयामि वः। य इदं धारयेन्नित्यं श्रृणुयाद्वाप्यभीक्ष्णशः । कीर्त्तनाच्छ्रवणाच्चापि महतीं सिद्धिमाप्नुयात् ।। ३८.
वायुरुवाच।। असाधारणवृत्तैस्तु हुतशेषादिभिर्द्विजैः। धर्म्मवैशेषिकैश्चैव ह्याचूर्णसूक्ष्मदर्शिभिः ।। ३९.
ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः। चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्धनाः ।। ३९.
अतीता वर्त्तमानाश्च तथैवानागताश्च ये। ऋषिभि र्दैवतैश्चैव सह गन्धर्वराक्षसैः ।। ३९.
सर्व्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः। ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ।। ३९.
सर्व्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः। ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ।। ३९.
तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः। वर्णाश्रमाणां धर्म्मेषु श्रौतस्मार्त्तेषु संस्थितैः। विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ।। ३९.
.ऋषय ऊचुः।। महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभो। प्रतिलोके च कर्त्तव्यमनेकैः समधिष्ठिताः ।। ३९.
यावन्तश्चैव ते लोका दह्यन्ते ये न तेप्रभो। एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथा तथम् ।। ३९.
एवमुक्तस्ततो वायुर्मुनिभिर्विनयात्मभिः। प्रोवाच मधुरं वाक्यं यथातत्त्वेन तत्त्ववित् ।। ३९.