अथात्मनि महातेजाः सर्वमादाय सर्वकृत्। ततस्ते वसते रात्रिं तमस्येकार्णवे जले ।। ३८.
ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः। मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः ।। ३८.
एवं सलोके निर्वृत्ते उपशान्ते प्रजापतौ। ब्रह्मनैमित्तिके तस्मिन् कल्पिते वै प्रसंयमे ।। ३८.
देहैर्वियोगः सत्वानां तस्मिन् वै कृत्स्नशः स्मृतः। ततो दग्धेषु भूतेषु सर्व्वेष्वादित्यरश्मिभिः। देवर्षिमनुवर्य्येषु तस्मिन् सङ्कलने तदा ।। ३८.
गन्धर्वादीनि सत्वानि पिशाचान्तानि सर्व्वशः। कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै ।। ३८.
तिर्यग्योनीनि सत्वानि नारकेयानि यान्यपि। तदा तान्यपि दग्धानि धुतपापानि सर्व्वशः। जने तान्युपपद्यन्ते यावत्संप्लवते जगत् ।। ३८.
व्युष्टायान्तु रजन्यां तु ब्रह्मणेऽव्यक्तयोनये। जायन्ते हि पुनस्तानि सर्व्वभूतानि कृत्स्नशः ।। ३८.
ऋषयो मनवो देवाः प्रजाः सर्व्वश्चतुर्विधाः। तेषामपीह सिद्धानां निधनोत्पत्तिरुच्यते ।। ३८.
यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमनं स्मृतम्। तथा जन्मनिरोधश्च भूतानामिह दृश्यते ।। ३८.
आभूतसंप्लवात्तस्माद्भवः संसार उच्यते । यथा सर्व्वाणि भूतानि जायन्ते हि वर्षास्विह ।। ३८.
स्थावरादीनि सत्त्वानि कल्पे कल्पे तथा प्रजाः। यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्य्यये ।। ३८.
दृश्यन्ते तानि तान्येव तथा ब्रह्मात्तरात्रिषु । प्रत्याहारे च सर्गे च गतिमन्ति ध्रुवाणि च ।। ३८.
निष्क्रमन्ते विशन्ते च प्रजाकारं प्रजापतिम्। ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ।। ३८.
संस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। व्यक्ता व्यक्तो महादेवस्तस्य सर्वमिदं जगत् ।। ३८.
येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन्। पूर्वप्रयातेन तथा ह्यपोऽन्यास्तेनैव तेनैव तु संव्रजन्ति ।। ३८.
यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः। मर्त्यास्तु देहान्तरभावितत्त्वाद्रवेर्वशादूर्द्ध्वमधश्चरन्ति ।। ३८.
ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः। सद्भाविताख्यातिवशाच्च धर्म्म्याः पुनर्निसर्गेण भवन्ति सत्त्वाः ।। ३८.
अत ऊर्द्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम्। मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः। सह प्रज्ञानिसर्गेण सह देवैश्चतुर्द्दश ।। ३८.
स युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै । अस्याः सहस्रे द्वे पूर्णे निःशेषः कल्प उच्यते ।। ३८.
एतद्ब्राह्ममहो ज्ञेयं तस्य संख्यां निबोधत। निमेषस्तुल्य मात्रा हि कृतो लघ्वक्षरेण तु ।। ३८.
मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृता। लवः क्षणास्तु पञ्चैव विंशत्काष्ठा तु ते त्रयः ।। ३८.
प्रस्थः सप्तोदकाश्चैव साधिकास्तु लवः स्मृतः। लवास्त्रिंशत्कला ज्ञेयै मुहूर्तस्त्रिंशतः कलाः ।। ३८.
मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः। अहोरात्रं कलानान्तु व्यधिकानि शतानि षट् ।। ३८.
ताश्चैव संख्याया ज्ञेयं चन्द्रादित्यगतिर्यथा। निमेषा दश पञ्चैव काष्ठास्तास्त्रिंशतः कला ।। ३८.
त्रिंशत्कला मुहूर्त्तस्तु दशभागः कला स्मृता। चत्वारिंशत्कलानान्तु मुहूर्त्त इति संज्ञतः ।। ३८.
मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः। तत्स्थाने नाम्भसाश्चापि पलान्यथ त्रयोदश ।। ३८.
मागधेनैव मानेन जलप्रस्थो विधीयते। एते चाप्युदकप्रस्थाश्चत्वारो नालिको धटः ।। ३८.
हेममाषैः कृतच्छिद्रै श्चतुर्भिश्चतुरङ्गुलैः. समाहनि च रात्रौ च मुहूर्त्तो वै द्विनालिकौ ।। ३८.
रवेर्गतिविशेषेण सर्वेषु नृषु नित्यशः। अधिकं षट् शतं पञ्चैव काष्ठास्तास्त्रिंशतः कला ।। ३८.
तदहर्मानुषं ज्ञेयं नाक्षत्रन्तु दशाधिकम्। सावनेन तु मासेन ह्यब्दोऽयं मानुषः स्मृतः ।। ३८.