नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः। नारदं नाशमेहीति गर्भवासं वसेति च ।। ४.
तथा तेष्वपि नष्टेषु महात्मसु पुरा किल। षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ।। ४.
तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः। धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ।। ४.
इमा विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः। आयुष्मान् कीर्त्तिमान् धन्यः प्रजानांश्च भवत्युत ।। ४.
देवानां दानवानाञ्च दैत्यानाञ्चैव सर्वशः। उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ।। ५.
धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत। अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।। ५.
सङ्कल्पा च मुहूर्ता च साध्या विश्वा तथैव च। धर्मपत्न्यो दशत्वेता दक्षः प्राचेतसो ददौ ।। ५.
साध्या पुत्रांस्तु धर्मस्य साध्यान् द्वादश जज्ञिरे। साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः। देवेभ्यस्तान् परान् देवान् देवज्ञाः परिचक्षिरे ।। ५.
ब्रह्मणो वै मुखात् सृष्टा जया देवाः प्रजेप्सया। सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ।। ५.
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् । चित्तिश्चैव विचित्तिश्च आकूतिः कूतिरेव च ।। ५.
विज्ञाता चैव विज्ञातो मनो यज्ञश्च ते स्मृताः । नामान्येतानि तेषां वै जयानां प्रथितानि च ।। ५.
ब्रह्मशापेन ते जाताः पुनः स्वायम्भुवे जिताः। स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः ।। ५.
तामसे हरयो नाम वैकुण्ठा रैवतान्तरे। साध्याश्च चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः ।। ५.
धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः। पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ।। ५.
स्वारोचिषेऽन्तरेऽतीता देवा ये वै महौजसः। तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेऽन्तरे ।। ५.
किञ्चिच्छिष्टे तदा तस्मिन् देवा वै तुषिताऽभ्रुवन्। इतरेतरं महाभागान् वयं साध्यान् प्रविश्य वै। मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ।। ५.
एवमुक्त्वातु ते सर्वे चाक्षुषस्यान्तरे मनोः। तस्माद्द्वादशसम्भूतान् धर्मान् स्वायम्भुवात् पुनः ।। ५.
नरनारायणौ तत्र जज्ञाते पुनरेव हि। विपश्चिदिन्द्रो यश्चासीत्तथा सत्यो हरिश्च तौ। स्वारोचिषेऽन्तरे पूर्वमास्तान्तौ तुषितौ सुरौ ।। ५.
तुषितानान्तु साध्यत्वे नामान्येतानि वक्ष्यते। मनोऽनुमन्ता प्राणश्च नरो यानश्च वीर्यवान् ।। ५.
चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा। प्रभवोऽथ विभुश्चैव साध्या द्वादश जज्ञिरे ।। ५.
स्वायम्भुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः। नामान्यासन् पुनस्तानि तुषितानां निबोधत ।। ५.
प्राणोऽपानस्तथोदानः समानो व्यान एव च। चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ।। ५.
प्राणापानावुदानश्च समानो व्यान एव च। नामान्येतानि पूर्वन्तु तुषितानां स्मृतानि ह ।। ५.
वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः । धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ।। ५.
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। ध्रुवपुत्रो भवो नाम्ना कालो लोकप्रकालनः ।। ५.
सोमस्य भगवान् वर्चा बुधश्च ग्रहबोधनः। रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ।। ५.
धारोर्मिकलिलाश्चैव त्रयश्चन्द्रमसः सुताः। आपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ।। ५.
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः। अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत। तस्य शाखो विशखश्च नैगमेयश्च पृष्ठजाः ।। ५.
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ।। ५.
प्रत्यूषस्य विदुः पुत्र ऋषिर्नाम्ना तु देवलः। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।। ५.