शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा । धूम्र वर्णा घनाः केचित्केचित्पीताः पयोधराः ।। ३८.
केचिद्रासभवर्णाभा लाक्षारक्तनिभास्तथा। मनःशिलाभास्त्वपरे कपोताभास्तथाम्बुदाः ।। ३८.
इन्द्रगोपनिभाः केचिदुत्तिष्ठन्ति घना दिवि। केचित्पुरधराकाराः केचिद्गजकुलोपमाः ।। ३८.
के चित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः। कुण्डागारनिभाः केचित्केचिन्मीनकुलोपमाः ।। ३८.
बहुरूपा घोररूपा घोरस्वरनिनादिनः। तदा जलधराः सर्वे पूरयन्ति नभःस्थलम् ।। ३८.
ततस्ते जलदा घोरा नवीना भास्करात्मिकाः। सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ।। ३८.
ततस्ते जलदा वर्षं मुञ्चन्ति च महोद्यमम्। सुघोरमशिवं सर्व्वं नाशयन्ति च पावकम् ।। ३८.
प्रवृष्टैश्च तथात्यर्थं वारिभिः पूर्य्यते जगत्। अद्भिस्तेजोऽभिभूतञ्च तदाग्निः प्राविशत्यपः ।। ३८.
नष्टे चाग्नौ वर्षशते पयोदाः पाकसम्भवाः। प्लावयन्ति जगत्सर्वं बृहज्जालपरिस्रवैः ।। ३८.
धाराभिः पूरयन्तीमं चोद्यमानाः स्वयम्भुवा। अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि। साद्रिर्द्वीपान्तरं पृथ्वी ह्यद्भिः संछाद्यते तदा ।। ३८.
तस्य वृष्ट्या च तोयं तत्सर्व्वं हि परिमण्डितम्। प्रविशत्युदधौ विप्राः पीतं सूर्य्यस्य रश्मिभिः ।। ३८.
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति। पुनः पतति तद्भूमौ तेन पूर्य्यन्ति चार्णवाः ।। ३८.
ततः समुद्राः स्वां वेलां परिक्रामन्ति सर्व्वशः। पर्व्वताश्च विशीर्य्यन्ते मही चाप्सु निमज्जति ।। ३८.
ततस्तु सहसोद्भ्रान्तः पयोदांस्तान्नभस्तले। संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ।। ३८.
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे। पूर्णे युगसहस्रे वै निःशेषः कल्प उच्यते ।। ३८.
अथाम्भसा वृते लोके प्राहुरेकार्णवं बुधाः। अथ भूमितलं खञ्च वायुश्चैकार्णवे तदा। नष्टे भावेऽवलीनं तत्प्राज्ञायत न किञ्चन ।। ३८.
पार्थिवास्त्वथ सामुद्रा आपो हैमाश्च सर्व्वशः। प्रसरन्त्यो व्रजन्त्येकं सलिलाख्यां भजन्त्युत ।। ३८.
आगतागतिकं चैव तदा तत्सलिलं स्मृतम्। प्रच्छाद्य तिष्ठति महीमर्णवाख्यं च तज्जलम् ।। ३८.
आभान्ति यस्मात्ता भाभिर्भाशब्दव्याप्तिदीप्तिषु। भस्म सर्व्वमनुप्राप्य तस्मादम्भो निरुच्यते ।। ३८.
नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते। एकार्णवे तदा यो वै न शीघ्रास्तेन ता नराः ।। ३८.
तस्मिन् युगसहस्रान्ते दिवसे ब्रह्मणो गते। तावन्तं कालमेवं तु भवत्येकार्णवं जगत्। तदा तु सर्व्वव्यापारा निवर्त्तन्ते प्रजापतेः ।। ३८.
एवमेकार्णवे तस्मिन्नष्टे स्थावर जङ्गमे। तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ।। ३८.
सहस्रशीर्षा सुमनाः सहस्रपात् सहस्रचक्षुर्वदनः सहस्रवाक्। सहस्रबाहुः प्रथमः प्रजापतिस्त्रीयपथे यः पुरुषो निरुच्यते ।। ३८.
आदित्यवर्णो भुवनस्य गोप्ता ह्यपूर्व्व एकः प्रथमस्तुराषाट् । हिरण्यगर्भः पुरुषो महान् वै संपद्यते वै तमसः परस्तात् ।। ३८.
चतुर्युगसहस्रान्ते सर्वतः सलिलप्लुते। सुषुप्सुरप्रकाशां स्वां रात्रिं तु कुरुते प्रभुः ।। ३८.
चतुर्विधा यदा शेते प्रजाः सर्व्वाण्डमण्डिताः। पश्यन्ते तं महात्मानं कालं सप्त महर्षयः ।। ३८.
जनलोकविवर्त्तन्तस्तपसा लब्धचक्षुषः। भृग्वादयो महात्मानः पूर्व्वे व्याख्यातलक्षणाः ।। ३८.
सत्यादीन् सप्तलोकान् वै ते हि पश्यन्ति चक्षुषा। ब्रह्माणं ते तु पश्यन्ति महाब्राह्मीषु रात्रिषु ।। ३८.
सप्तर्षयः प्रपश्यन्ति सप्तकालं स्वरात्रिषु। कल्पानां परमेष्ठित्वात्तस्मादाद्यः स पठ्यते ।। ३८.
स यष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। एवमावेशयित्वा तु स्वात्मन्येव प्रजापतिः ।। ३८.