ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसम्भवः । ततः संहृत्य तान् ब्रह्मा देवांस्त्रैलोक्यवासिनः ।। ३८.
अहरन्ते प्रकुरुते सर्गस्य प्रलयं पुनः। सुषुप्सुर्भगवान् ब्रह्मा प्रजाः संहरते तदा ।। ३८.
ततो युगसहस्रान्ते संप्राप्ते च युगक्षये। तत्रात्मस्थाः प्रजाः कर्त्तुं प्रपेदे स प्रजापतिः ।। ३८.
तदा भवत्यनावृष्टिस्तदा सा शत वार्षिकी। तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ।। ३८.
तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च। सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ।। ३८.
असह्यरश्मिर्भगवान् पिबन्नम्भो गभस्तिभिः। हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ।। ३८.
भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः। भौमं काष्ठं धनं तेजो भृशमद्भिस्तु दीप्यते ।। ३८.
तस्मादुदकं सूर्य्यस्य तपतोऽति हि कथ्यते। नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविष्यते ।। ३८.
नावृष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः। तस्मादपः पिबन् या वै दीप्यते रविरम्बरे ।। ३८.
तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात्। तेनाहारेण सन्दीप्तः सूर्य्यः सप्त भवत्युत ।। ३८.
ततस्ते रश्मयः सप्त सूर्य्यभूताश्चतुर्दिशम्। चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ।। ३८.
प्राप्नुवन्ति च भाभिस्तु ह्यूर्द्धं चाधश्च रश्मिभिः। दीप्यन्ते भास्कराः सप्त युगान्ताग्निः प्रतापिनः ।। ३८.
ते वारिणा च संदीप्ता बहुसाहस्ररश्मयः। खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम् ।। ३८.
ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा। साद्रिनद्यर्णवा पृथ्वी विस्नेहा समपद्यत ।। ३८.
दीप्ताभिः सन्तताभिश्च चित्राभिश्च समन्ततः। अधश्चोर्ध्वश्च तिर्यक् च संरुद्धं सूर्यरश्मिभिः ।। ३८.
सूर्य्यग्नीनां प्रवृद्धानां संसृष्टानां परस्परम्। एकत्वमुपयातानामेकज्वालं भवत्युत ।। ३८.
सर्वलोकप्रणाशञ्च सोऽग्निर्भूत्वा तु मण्डली। चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ।। ३८.
ततः प्रलीयते सर्व्वं जङ्गमं स्थावरं तदा। निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ।। ३८.
अम्बरीषमिवाभाति सर्वं मारिषितं जगत्। सर्वमेव तदार्चिर्भिः पूर्णं जज्वाल्यते नभः ।। ३८.
पाताले यानि भूतानि महोतधिगतानि च । ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ।। ३८.
द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः। सर्व्वं तद्भस्मसाच्चक्रे सर्व्वात्मा पावकस्तु सः ।। ३८.
समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वतः। पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ।। ३८.
ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा। लोकान् संहरते दीप्तो घोरः संवर्त्तकोऽनलः ।। ३८.
ततः स पृथिवीं भित्त्वा रसातलमशोषयत्। निर्दह्य तांस्तु पातालान्नागलोकमथादहत् ।। ३८.
अधस्तात्पृथिवीं दग्ध्वा ह्यूर्द्ध्वं स दहते दिवम्। योजनानां सहस्राणि ह्ययुतान्यर्बुदानि च ।। ३८.
उदतिष्ठञ्छिखास्तस्य बह्वयः संवर्त्तकस्य तु। गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् । तदा दहति सन्दीप्तो गोलकं चैव सर्व्वशः ।। ३८.
भूर्लोकन्तु भुवर्लोकं स्वर्लोकञ्च महस्तथा। घोरं दहति कालाग्निरेवं लोकचतुष्टयम् ।। ३८.
व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना। तत्तेजः समनुप्राप्तं कृत्स्नं जगदिदं शनैः। अयोगुडनिभं सर्व्वं तदा ह्येवं प्रकाशते ।। ३८.
ततो गजकुलाकारास्तडिद्भि समलंकृताः। उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्त्तका घनाः ।। ३८.
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः। केचिद्वैढूर्यसंकाशा इन्द्रनीलनिभाऽपरे ।। ३८.