तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः। त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च। सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ।। ३८.
भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः। भूतानुवादिनः सक्तास्त्रयो वेदाः प्रवादिनाम् ।। ३८.
अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः। भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा। ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।। ३८.
सवर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः। एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ।। ३८.
रौच्यो भौत्यश्च यौ तौ तु मनोः पौलहभार्गवौ। भौत्यस्यैवाधिपत्ये तु पूर्णः कल्पस्तु पूर्य्यते ।। ३८.
सूत उवाच।। निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह। अन्तेऽनेकयुगे तस्मिन् क्षीणे संहार उच्यते ।। ३८.
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा। भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ।। ३८.
पितृभिर्मनुभिश्चैव सार्द्धं सप्तर्षिभिस्तु ये। यज्वानश्चैव तेऽप्यन्ये तद्भाक्ताश्चैव तैः सह ।। ३८.
महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः। ततस्तेषु गतेषूर्द्ध्वं क्षीणे मन्वन्तरे तदा। अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ।। ३८.
ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः। प्रभ्रश्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ।। ३८.
ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह। सेन्द्राष्टेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ।। ३८.
जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश। मन्वन्तरेषु सर्व्वेषु देवास्ते वै महौजसः ।। ३८.
ततस्तेषु गतेषूर्द्ध्वं सायोज्यं कल्पवासिनाम्। समेत्य देवास्ते सर्वे प्राप्ते संकलने तदा ।। ३८.
महर्लोकं परित्यज्य गणास्ते वै चतुर्द्दश। सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ।। ३८.
एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति। भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ।। ३८.
शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु। देवेषु च गतेषूर्द्ध्वं सायोज्यं कल्पवासिनाम् ।। ३८.
संहृत्य तांस्ततो ब्रह्मा देवर्षिपितृदानवान्। संस्थापयति वै सर्गं महदॄष्ट्या युगक्षये ।। ३८.
तत्र युगसहस्रान्तमहर्यर्द्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ।। ३८.
नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोऽर्थतः। त्रिविधः सर्व्वभूतानामित्येष प्रतिसञ्चरः ।। ३८.
ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः। प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ।। ३८.
ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसम्भवः । ततः संहृत्य तान् ब्रह्मा देवांस्त्रैलोक्यवासिनः ।। ३८.
अहरन्ते प्रकुरुते सर्गस्य प्रलयं पुनः। सुषुप्सुर्भगवान् ब्रह्मा प्रजाः संहरते तदा ।। ३८.
ततो युगसहस्रान्ते संप्राप्ते च युगक्षये। तत्रात्मस्थाः प्रजाः कर्त्तुं प्रपेदे स प्रजापतिः ।। ३८.
तदा भवत्यनावृष्टिस्तदा सा शत वार्षिकी। तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ।। ३८.
तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च। सप्तरश्मिरथो भूत्वा ह्युदतिष्ठद्विभावसुः ।। ३८.
असह्यरश्मिर्भगवान् पिबन्नम्भो गभस्तिभिः। हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ।। ३८.
भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः। भौमं काष्ठं धनं तेजो भृशमद्भिस्तु दीप्यते ।। ३८.
तस्मादुदकं सूर्य्यस्य तपतोऽति हि कथ्यते। नावृष्ट्या तपते सूर्यो नावृष्ट्या परिविष्यते ।। ३८.
नावृष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः। तस्मादपः पिबन् या वै दीप्यते रविरम्बरे ।। ३८.
तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात्। तेनाहारेण सन्दीप्तः सूर्य्यः सप्त भवत्युत ।। ३८.