वर्य्योदितस्तथा जिष्टो वर्चस्वी द्युतिमान् हविः। शुभो हविकृतात्प्राप्तिर्व्यापृथो दशमस्तथा ।। ३८.
सुपारा मानसास्त्वेते देवा वै सम्प्रकीर्त्तिताः। तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ।। ३८.
कृतिर्वसिष्ठपुत्रस्तु ह्यात्रेयः सुतपास्तथा। तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ।। ३८.
तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः। भार्गवः सप्तमस्त्वेषां विज्ञेयस्तु तपोमतिः ।। ३८.
एते सप्तर्षयः सिद्धा अन्ये सावर्णिकेऽन्तरे। देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।। ३८.
मित्रवान् मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा। मित्रबाहुः सुवर्चाश्च द्वादशैते मनोः सुताः ।। ३८.
त्रयो दशे तु पर्याये भाव्या रौच्यान्तरे पुनः। त्रय एव गणाः प्रोक्ता देवानान्तु स्वयम्भुवा ।। ३८.
ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः। सुत्रामाणः सुधर्म्माणः सुकर्म्माणश्च ते त्रयः ।। ३८.
त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनः। त्रयस्त्रिंशद्देवता याः प्राभविष्यन्त याज्ञिकैः ।। ३८.
आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि। देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ।। ३८.
सुत्रामाणः प्रयाज्यास्तु ह्याद्याज्यास्तु साम्प्रतम्। सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ।। ३८.
उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः । दिवस्पतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ।। ३८.
पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः । अङ्गिराश्चैव धृतिमान् पौलस्त्यः पथ्यवांस्तु सः ।। ३८.
पौलहस्तत्त्व दर्शी च भार्गवश्च निरुत्सकः। निष्प्रकम्पस्तथात्रेयो निर्मोहः कश्यपस्तथा ।। ३८.
स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे। चित्रसेनो विचित्रश्च तपो धर्मधृतो भवः ।। ३८.
अनेकक्षत्रबद्धश्च सुरसो निर्भयः पृथः। रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ।। ३८.
चतुर्द्दशे तु पर्याये भौतस्याप्यन्तरे मनोः । देवतानां गणाः पञ्च प्रोक्ता येतु भविष्यति ।। ३८.
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भाजरास्तथा। वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ।। ३८.
सप्तैव तांस्तान् भागांश्च विद्धि चाक्षुषसंज्ञकान्। बृहदाद्यानि सामानि कनिष्ठान् सप्त तान् विदुः। सप्त लोकाः परित्रास्ते भाजिराः सप्त सिन्धवः ।। ३८.
वाचावृद्धानृषीन् विद्धि मनोः स्वायम्भुवस्य वै। सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ।। ३८.
तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः। त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च। सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ।। ३८.
भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः। भूतानुवादिनः सक्तास्त्रयो वेदाः प्रवादिनाम् ।। ३८.
अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः। भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा। ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।। ३८.
सवर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः। एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ।। ३८.
रौच्यो भौत्यश्च यौ तौ तु मनोः पौलहभार्गवौ। भौत्यस्यैवाधिपत्ये तु पूर्णः कल्पस्तु पूर्य्यते ।। ३८.
सूत उवाच।। निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह। अन्तेऽनेकयुगे तस्मिन् क्षीणे संहार उच्यते ।। ३८.
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा। भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ।। ३८.
पितृभिर्मनुभिश्चैव सार्द्धं सप्तर्षिभिस्तु ये। यज्वानश्चैव तेऽप्यन्ये तद्भाक्ताश्चैव तैः सह ।। ३८.
महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः। ततस्तेषु गतेषूर्द्ध्वं क्षीणे मन्वन्तरे तदा। अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ।। ३८.
ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः। प्रभ्रश्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ।। ३८.