आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापि यः स्मृतः। पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः। अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ।। ३८.
सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान्। शतानीको निरामित्रो वृषसेनो जयद्रथः ।। ३८.
भूरिद्युम्नः सुवर्च्चाश्च दशैते मानवाः स्मृताः। एकादशे तु पर्य्याये सावर्णे वै तृतीयके ।। ३८.
निर्म्माणरतयो देवाः कामजा वै मनोजवाः। गणास्त्वेते त्रयः ख्याता देवतानां महात्मनाम् ।। ३८.
एकैकं त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम्। मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ।। ३८.
निर्म्माणरतयो देवा रात्रयस्तु विहङ्गमाः। गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ।। ३८.
मनोजवा मुहूर्त्तास्तु इति देवाः प्रकीर्त्तिताः । एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ।। ३८.
तेषामिन्द्रो वृषो नाम भविष्यः सुरराट् ततः। तेषां सप्तर्षयश्चापि कीर्त्त्यमानान्निबोधत ।। ३८.
हविष्मान् काश्यपश्चापि वपुष्मान् यश्च भार्गवः। वारुणिश्चैव चात्रेयो वासिष्ठो भग एव च ।। ३८.
पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा। पौलहो ह्यग्नितेजाश्च देवा ह्येकादशेऽन्तरे ।। ३८.
सर्व्ववेगः सुधर्म्मा च देवानीकः पुरोवहः। क्षेमधर्मा गृहेषुश्च ह्यादर्शः पौण्ड्रको मनः ।। ३८.
सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः। द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ।। ३८.
चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे श्रृणु। पञ्चैव तु गणाः प्रोक्ता देवतानामनागताः ।। ३८.
हरिता रोहिताश्चैव देवाः सुमनसस्तथा। सुकर्म्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ।। ३८.
ब्रह्मणो मानसा ह्येते एकैको दशको गणः। अरुन्तिजो हरिश्चैव विद्वान् यश्च सहस्रशः ।। ३८.
पर्वतानुचरश्चैव ह्यपोंऽशुश्च मनोजवः। उर्ज्जा स्वाहा स्वधा तारा दशैते रोहिताः स्मृताः ।। ३८.
तपोजानिर्भृतिश्चैव वाचा बन्धुश्च यः स्मृतः । रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ।। ३८.
व्युष्टिर्विधिश्च वै देवो दशैते रोहिताः स्मृताः । उषिताद्यास्तु ये देवास्त्रयस्त्रिशत्प्रकीर्तिताः ।। ३८.
देवान् सुमनसो विद्धि सुकर्माणो निबोधत। सुपर्वा वृषभः पृष्टः कृपिद्युम्नौ विपश्चितः ।। ३८.
विक्रमश्च क्रमश्चैव निभृतः कान्त एव च ३८.
वर्य्योदितस्तथा जिष्टो वर्चस्वी द्युतिमान् हविः। शुभो हविकृतात्प्राप्तिर्व्यापृथो दशमस्तथा ।। ३८.
सुपारा मानसास्त्वेते देवा वै सम्प्रकीर्त्तिताः। तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ।। ३८.
कृतिर्वसिष्ठपुत्रस्तु ह्यात्रेयः सुतपास्तथा। तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ।। ३८.
तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः। भार्गवः सप्तमस्त्वेषां विज्ञेयस्तु तपोमतिः ।। ३८.
एते सप्तर्षयः सिद्धा अन्ये सावर्णिकेऽन्तरे। देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।। ३८.
मित्रवान् मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा। मित्रबाहुः सुवर्चाश्च द्वादशैते मनोः सुताः ।। ३८.
त्रयो दशे तु पर्याये भाव्या रौच्यान्तरे पुनः। त्रय एव गणाः प्रोक्ता देवानान्तु स्वयम्भुवा ।। ३८.
ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः। सुत्रामाणः सुधर्म्माणः सुकर्म्माणश्च ते त्रयः ।। ३८.
त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनः। त्रयस्त्रिंशद्देवता याः प्राभविष्यन्त याज्ञिकैः ।। ३८.
आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि। देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ।। ३८.