वर्णस्तथाप्यङ्गविश्वौ मुरण्यो व्रजनो मतः। अमितो द्रवकेतुश्च जम्भोस्थाजस्रशक्रकाः ।। ३८.
सुनेमिर्द्युतपाश्चैव सुशर्म्माणः प्रकीर्त्तिताः। तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ।। ३८.
स्कन्दः सोमप्रतीकाशः कार्तिकेयस्तु पावकः। माघातिथिश्च पौलस्त्यो वसुः काश्यप एव च ।। ३८.
ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा। वसितश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ।। ३८.
सुतपाः पौलवश्चैव सप्तैते रोहितान्तरे। धृतिकेतुदीप्तिकेतुशापहस्ता निरामयः ।। ३८.
पृथुश्रवास्तथा नाको भूरिद्युम्नो बृहद्रथः। प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ।। ३८.
दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः। द्वितीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ।। ३८.
सुखामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ। त्विषिवन्तश्च ते सर्वे शतसङ्ख्याश्च ते समाः ।। ३८.
प्राणा नायच्छतः प्रोक्त ऋषिभिः पुरुषेषु वै। देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ।। ३८.
तेषामिन्द्रस्तथा विद्वान् भविष्यः शान्तिरुच्यते। हविष्मान् पौलहः श्रीमान् सुकीर्तिश्चापि भार्गवः ।। ३८.
आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापि यः स्मृतः। पौलस्त्यः प्रतिपश्चापि नाभागश्चैव काश्यपः। अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ।। ३८.
सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणश्च वीर्यवान्। शतानीको निरामित्रो वृषसेनो जयद्रथः ।। ३८.
भूरिद्युम्नः सुवर्च्चाश्च दशैते मानवाः स्मृताः। एकादशे तु पर्य्याये सावर्णे वै तृतीयके ।। ३८.
निर्म्माणरतयो देवाः कामजा वै मनोजवाः। गणास्त्वेते त्रयः ख्याता देवतानां महात्मनाम् ।। ३८.
एकैकं त्रिंशतस्तेषां गणास्तु त्रिदिवौकसाम्। मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ।। ३८.
निर्म्माणरतयो देवा रात्रयस्तु विहङ्गमाः। गणास्ते वै त्रयः प्रोक्ता देवतानां भविष्यति ।। ३८.
मनोजवा मुहूर्त्तास्तु इति देवाः प्रकीर्त्तिताः । एते हि ब्रह्मणः पुत्रा भविष्या मनवः स्मृताः ।। ३८.
तेषामिन्द्रो वृषो नाम भविष्यः सुरराट् ततः। तेषां सप्तर्षयश्चापि कीर्त्त्यमानान्निबोधत ।। ३८.
हविष्मान् काश्यपश्चापि वपुष्मान् यश्च भार्गवः। वारुणिश्चैव चात्रेयो वासिष्ठो भग एव च ।। ३८.
पुष्टिश्चाङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा। पौलहो ह्यग्नितेजाश्च देवा ह्येकादशेऽन्तरे ।। ३८.
सर्व्ववेगः सुधर्म्मा च देवानीकः पुरोवहः। क्षेमधर्मा गृहेषुश्च ह्यादर्शः पौण्ड्रको मनः ।। ३८.
सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै मनोः। द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ।। ३८.
चतुर्थे ऋतुसावर्णे देवास्तस्यान्तरे श्रृणु। पञ्चैव तु गणाः प्रोक्ता देवतानामनागताः ।। ३८.
हरिता रोहिताश्चैव देवाः सुमनसस्तथा। सुकर्म्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ।। ३८.
ब्रह्मणो मानसा ह्येते एकैको दशको गणः। अरुन्तिजो हरिश्चैव विद्वान् यश्च सहस्रशः ।। ३८.
पर्वतानुचरश्चैव ह्यपोंऽशुश्च मनोजवः। उर्ज्जा स्वाहा स्वधा तारा दशैते रोहिताः स्मृताः ।। ३८.
तपोजानिर्भृतिश्चैव वाचा बन्धुश्च यः स्मृतः । रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ।। ३८.
व्युष्टिर्विधिश्च वै देवो दशैते रोहिताः स्मृताः । उषिताद्यास्तु ये देवास्त्रयस्त्रिशत्प्रकीर्तिताः ।। ३८.
देवान् सुमनसो विद्धि सुकर्माणो निबोधत। सुपर्वा वृषभः पृष्टः कृपिद्युम्नौ विपश्चितः ।। ३८.
विक्रमश्च क्रमश्चैव निभृतः कान्त एव च ३८.