तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता। पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ।। ३८.
प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते। चतुर्द्दशैव ते ज्ञेयाः सर्गाः स्वायम्भुवादयः ।। ३८.
मन्वन्तराधिकारेषु वर्तन्ते च सकृत् सकृत्। विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ।। ३८.
समतीतास्तु ये तेषामष्टौ षष्ठास्तथापरे। पूर्वेषु साम्प्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ।। ३८.
ये शिष्टास्तान् प्रवक्ष्यामि सह देवर्षिदानवैः। सह प्रजानिसर्गेण सर्व्वांस्त्वनागतान् द्विजान् ।। ३८.
वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः। अन्यूना नातिरिक्तास्ते यस्मात् सर्व्वे विवस्वतः ।। ३८.
पुनरुक्ता बहुत्वात्तु वक्ष्ये न तेषु विस्तरम्। मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ।। ३९.
कुले कुले निसर्गांस्तु तस्माद्भूयो विभागशः । तेषामेव हि शिष्टार्थं विस्तरेण क्रमेण च ।। ३९.
दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता। सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता। गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ।। ३९.
वैराजस्तमुपासीनं धर्मेण च भवेन च। भवधर्मसमीपस्थं दक्षं ब्रह्माभ्यभाषत ।। ३९.
दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता। चतुरो वै मनून् पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ।। ३८.
ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा। तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ।। ३८.
सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत। सदृशानुरूपांस्तेषां चतुरो वै कुमारकान् ।। ३८.
संसिद्धाः कार्यकरणे सम्भूतास्ते श्रियान्वितः। उपभोगसमर्थैश्च सद्योजातैः शरीरकैः ।। ३८.
ते दृष्ट्वा तान् स्वयम्बुद्ध्वा ब्रह्मा व्याहाहिणस्तदा। संरब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ।। ३८.
अभिध्यानान्मनोत्पन्नानूचुर्वै ते परस्परम्। यो यस्य वपुषा तुल्यो भजतां स तु तं सुतम् ।। ३८.
यस्य यः सदृशश्चापि रूपे वीर्य च नामतः। तं गृह्णातु सुभद्रं वो वर्णतो यस्य यः समः ।। ३८.
ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा। तस्मादात्मसमः पुत्रः पितुर्मातुश्च जायते ।। ३८.
एवं ते समयं कृत्वा सवर्णान् जगृहुः सुतान्। यस्मात् सवर्णास्तेषां वै ब्रह्मादीनां कुमारकाः ।। ३८.
सवर्णा मनवस्तस्मात् सवर्णत्वं हि ते यतः। मननान्माननाच्चैव तस्मात्ते मनवः स्मृताः ।। ३८.
चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह। रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ।। ३८.
भूत्यामुत्पादितो यस्तु भौत्यो नामाभवत्सुतः। वैवस्वतेऽन्तरे राजा द्वौ मनू तु विवस्वतोः ।। ३८.
वैवस्वतो मनुर्यश्च सावर्णो यश्च विश्रुतः। ज्येष्ठः संज्ञासुतो विद्वान् मनुर्वैवस्वतः प्रभुः ।। ३८.
सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः । सवर्णा मनवो ये च चत्वारस्तु महर्षिजाः ।। ३८.
तपसा सम्भृतात्मानः स्वेषु मन्वन्तरेषु वै। भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ।। ३८.
प्रथमं मेरुसावर्णेर्दक्षपुत्रस्य वै मनोः। पुत्रा मरीचिगर्भाश्च सुशर्माणश्च ते त्रयः । सम्भूताश्च महात्मानः सर्वे वैवस्वतेऽन्तरे ।। ३८.
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः। भविष्यस्य भविष्यस्तु एकैको द्वादशो गणः ।। ३८.
ऐश्वर्यसंग्राहो राहो बाहुवशस्तथैव च। पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ।। ३८.
वाजियो वाजिजिच्चैव प्रभृतिश्च ककुद्यथ। दधिक्रावायपक्वाश्च प्रणीतो विजयो मधुः ।। ३८.
तेजस्मान्नथवो द्वौ तु द्वादशैते मरीचयः। सुशर्म्माणस्तु वक्ष्यामि नामतस्तु निबोधत ।। ३८.