नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः। रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिः प्रभाकरौ ।। ३८.
प्रभासो भासकृद्धर्म्मस्तेजोरश्मिऋतुर्विराट्। अर्चिष्मान् द्योतनो भानुर्यशकीर्त्तिर्बुधो धृतिः। विंशतिः सुतपा ह्येते नामभिः परिकीर्तिताः ।। ३८.
प्रभुर्विभुर्विभासश्च जेता हन्ताऽरिहा रितुः। सुमतिः प्रमतिर्दीप्तिः समाख्यातो महोमहान् ।। ३८.
देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतः। इत्येते ह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ।। ३८.
दमो दाता विदः सोमो वित्तवैद्यौ यमो निधिः। होमं हव्यं हुतं दानं देयं दाता तपः शमः ।। ३८.
ध्रुवं स्थानं विधानञ्च नियमश्चेति विंशतिः। मुख्या ह्येते समाख्याताः सावर्णे प्रथमेऽन्तरे ।। ३८.
मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः। साम्प्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ।। ३८.
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा। वीरवांश्चावरीयांश्च निर्मोहः सत्यवाक् कृती ।। ३८.
चरिष्णुराज्यो विष्णुश्च वाचः सुमतिरेव च। सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ।। ३८.
नव चान्येषु वक्ष्यामि सावर्णेश्चान्तरेषु वै। सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ।। ३८.
मेरुसावर्णिनस्ते वै दृष्टा ये दिव्यदृष्टिभिः। दक्षस्य ते हि दौहित्राः प्रियाया दुहितुः सुताः ।। ३८.
महता तपसा युक्ता मेरुपृष्ठे महौजसः। ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ।। ३८.
महर्लोकगतावृत्य भविष्या मेरुमाश्रिताः। महाभावात्तु ते पूर्वं जज्ञिरे चाक्षुषेऽन्तरे ।। ३८.
ऋषय ऊचुः।। दक्षेण जनिताः पुत्राः कन्यायामात्मनः कथम्। भवेत्तु ब्रह्मणश्चैव धर्मेण च महात्मनः ।। ३८.
सूत उवाच।। अतो भविष्यान् वक्ष्यामि सावर्णमनवस्तु ये। तेषां जन्म प्रभावञ्च नमस्कृत्य प्रचेतसे ।। ३८.
वैवस्वते ह्युपस्पृष्टे किञ्चिच्छिष्टे च चाक्षुषे। जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ।। ३८.
प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये। सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ।। ३८.
संज्ञापुत्रस्तु सावर्ण एको वैवस्वतस्तथा। ज्येष्ठः संज्ञासुतो नाम मनुर्वैवस्वतः प्रभुः ।। ३८.
वैवस्वतेऽन्तरे प्राप्ते समुत्पत्तिस्तयोः शुभा। चतुर्द्दशैते मनवः कीर्त्तिताः कीर्त्तिवर्द्धनाः ।। ३८.
वेदे श्रुतौ पुराणे च सर्वे ते प्रभविष्णवः। प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ।। ३८.
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता। पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ।। ३८.
प्रजाभिस्तपसा चैव विस्तरं तेषु वक्ष्यते। चतुर्द्दशैव ते ज्ञेयाः सर्गाः स्वायम्भुवादयः ।। ३८.
मन्वन्तराधिकारेषु वर्तन्ते च सकृत् सकृत्। विनिवृत्ताधिकारास्ते महर्लोकं समाश्रिताः ।। ३८.
समतीतास्तु ये तेषामष्टौ षष्ठास्तथापरे। पूर्वेषु साम्प्रतश्चायं शान्तिर्वैवस्वतः प्रभुः ।। ३८.
ये शिष्टास्तान् प्रवक्ष्यामि सह देवर्षिदानवैः। सह प्रजानिसर्गेण सर्व्वांस्त्वनागतान् द्विजान् ।। ३८.
वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः। अन्यूना नातिरिक्तास्ते यस्मात् सर्व्वे विवस्वतः ।। ३८.
पुनरुक्ता बहुत्वात्तु वक्ष्ये न तेषु विस्तरम्। मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ।। ३९.
कुले कुले निसर्गांस्तु तस्माद्भूयो विभागशः । तेषामेव हि शिष्टार्थं विस्तरेण क्रमेण च ।। ३९.
दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता। सर्वकन्यावशिष्टा तु श्रेष्ठा धर्मपरा सुता। गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ।। ३९.
वैराजस्तमुपासीनं धर्मेण च भवेन च। भवधर्मसमीपस्थं दक्षं ब्रह्माभ्यभाषत ।। ३९.