नु शक्यं विस्तरं तेषां सन्तानानां परम्परा। तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।। ३७.
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे। एता राजर्षिभिः सार्द्धं शिष्टा यास्ता निबोधत ।। ३७.
चत्वारिंशच्च ये चैव भविष्याः सह राजभिः। युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ।। ३७.
एतद्वः कथितं सर्व्वं समासव्यासयोगतः। पुनरुक्तं बहुत्वाच्च न शक्यन्तु युगैः सह ।। ३७.
एते ययातिपुत्राणां पञ्चविंशा विशां हिताः। कीर्त्तिताश्चामिता ये मे लोकान् वै धारयन्त्युत ।। ३७.
लभते च वरेण्यञ्च दुर्लभानिह लौकिकान्। आयुः कीर्त्तिं धनं पुत्रान् स्वर्गं चानन्त्यमश्नुते ।। ३७.
धारणाच्छ्रवणाच्चैव ते लोकान् धारयन्त्युत। इत्येष वो मयो पादस्तृतीयः कथितो द्विजाः। विस्तरेणानुपूर्व्वी च किम्भूयो वर्त्तयाम्यहम् ।। ३७.
श्रुत्वा पादं तृतीयन्तु क्रान्तं सूतेन धीमता। ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ।। ३८.
ऋषय ऊचुः।। पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया। चतुर्थं विस्तरात्पादं संहारं परिकीर्त्तय ।। ३८.
मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह। सप्तर्षीणामथैतेषां साम्प्रतस्यान्तरे मनोः ।। ३८.
विस्तरावयवञ्चैव निसर्गस्य महात्मनः। विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि मे ।। ३८.
सूत उवाच।। भवतां कथयिष्यामि सर्वमेतद्यथातथम्। पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ।। ३८.
मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः। विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ।। ३८.
मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः। प्रलयञ्चैव लोकानां ब्रुवतो मे निबोधत ।। ३८.
एतान्युक्तानि वै सम्यक् सप्तसप्तसु वै मया। मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ।। ३८.
सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह। भविष्यस्य भविष्यन्ति समासात्तु निबोधत ।। ३८.
अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः। कौशिको गातवश्चैव जामदग्न्यश्च भार्गवः ।। ३८.
द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा। आत्रेयो दीप्तिमांश्चैव ऋष्यश्रृङ्गस्तु काश्यपः ।। ३८.
भारद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः। एते सप्त महात्मानो भविष्याः परमर्षयः ।। ३८.
सुतपा श्चामिताभाश्च सुखाश्चैव गणास्त्रयः। तेषां गणास्तु देवानां एकैको विंशकः स्मृतः ।। ३८.
नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः। रितस्तपश्च शुक्रश्च द्युतिर्ज्योतिः प्रभाकरौ ।। ३८.
प्रभासो भासकृद्धर्म्मस्तेजोरश्मिऋतुर्विराट्। अर्चिष्मान् द्योतनो भानुर्यशकीर्त्तिर्बुधो धृतिः। विंशतिः सुतपा ह्येते नामभिः परिकीर्तिताः ।। ३८.
प्रभुर्विभुर्विभासश्च जेता हन्ताऽरिहा रितुः। सुमतिः प्रमतिर्दीप्तिः समाख्यातो महोमहान् ।। ३८.
देहो मुनिर्नयो ज्येष्ठः समः सत्यश्च विश्रुतः। इत्येते ह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ।। ३८.
दमो दाता विदः सोमो वित्तवैद्यौ यमो निधिः। होमं हव्यं हुतं दानं देयं दाता तपः शमः ।। ३८.
ध्रुवं स्थानं विधानञ्च नियमश्चेति विंशतिः। मुख्या ह्येते समाख्याताः सावर्णे प्रथमेऽन्तरे ।। ३८.
मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः। साम्प्रतस्य भविष्यन्ति सावर्णस्यान्तरे मनोः ।। ३८.
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनः पुरा। वीरवांश्चावरीयांश्च निर्मोहः सत्यवाक् कृती ।। ३८.
चरिष्णुराज्यो विष्णुश्च वाचः सुमतिरेव च। सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ।। ३८.
नव चान्येषु वक्ष्यामि सावर्णेश्चान्तरेषु वै। सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ।। ३८.