उत्पद्यमानास्त्रेतायां क्षीयमाणे कलौ पुनः। अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ।। ३७.
जामदग्न्येन रामेण क्षत्रे निरवशेषिते। कृते वंशकुलाः सर्वाः क्षत्रियैर्वसुधाधिपैः। द्विवंशकरणाश्चैव कीर्त्तयिष्ये निबोधत ।। ३७.
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते। राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः ।। ३७.
ऐलवंशस्य ये ख्यातास्तथैवैक्ष्वाकवा नृपाः । तेषामेकशतं पूर्णं कुलानामभिषेकिनाम् ।। ३७.
तावदेव तु भोजानां विस्तारो द्विगुणः स्मृतः । भजते त्रिंशकं क्षत्रं चतुर्धा तद्यथादिशम् ।। ३७.
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत। शतं वै प्रतिविन्ध्यानां शतं नागाः शतं हयाः ।। ३७.
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतञ्च ब्रह्मदत्तानां शीरिणां वीरिणां शतम् ।। ३७.
ततः शतं पुरोमानां श्वेतकाशकुशादयः । ततोऽपरे सहस्रं वै येऽतीताः शतबिन्दवः ।। ३७.
ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः । एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः ।। ३७.
मनोर्वैवस्वतस्यास्मिन् वर्त्तमानेऽन्तरे तु ये । तेषां निबोधतोत्पन्ना लोके सन्ततयः स्मृताः ।। ३७.
नु शक्यं विस्तरं तेषां सन्तानानां परम्परा। तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि ।। ३७.
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेऽन्तरे। एता राजर्षिभिः सार्द्धं शिष्टा यास्ता निबोधत ।। ३७.
चत्वारिंशच्च ये चैव भविष्याः सह राजभिः। युगाख्यानां विशिष्टास्तु ततो वैवस्वतक्षये ।। ३७.
एतद्वः कथितं सर्व्वं समासव्यासयोगतः। पुनरुक्तं बहुत्वाच्च न शक्यन्तु युगैः सह ।। ३७.
एते ययातिपुत्राणां पञ्चविंशा विशां हिताः। कीर्त्तिताश्चामिता ये मे लोकान् वै धारयन्त्युत ।। ३७.
लभते च वरेण्यञ्च दुर्लभानिह लौकिकान्। आयुः कीर्त्तिं धनं पुत्रान् स्वर्गं चानन्त्यमश्नुते ।। ३७.
धारणाच्छ्रवणाच्चैव ते लोकान् धारयन्त्युत। इत्येष वो मयो पादस्तृतीयः कथितो द्विजाः। विस्तरेणानुपूर्व्वी च किम्भूयो वर्त्तयाम्यहम् ।। ३७.
श्रुत्वा पादं तृतीयन्तु क्रान्तं सूतेन धीमता। ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ।। ३८.
ऋषय ऊचुः।। पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण यस्त्वया। चतुर्थं विस्तरात्पादं संहारं परिकीर्त्तय ।। ३८.
मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह। सप्तर्षीणामथैतेषां साम्प्रतस्यान्तरे मनोः ।। ३८.
विस्तरावयवञ्चैव निसर्गस्य महात्मनः। विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि मे ।। ३८.
सूत उवाच।। भवतां कथयिष्यामि सर्वमेतद्यथातथम्। पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ।। ३८.
मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः। विस्तरेणानुपूर्व्या च निसर्गं श्रृणुत द्विजाः ।। ३८.
मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः। प्रलयञ्चैव लोकानां ब्रुवतो मे निबोधत ।। ३८.
एतान्युक्तानि वै सम्यक् सप्तसप्तसु वै मया। मन्वन्तराणि संक्षेपाच्छृणुतानागतानि मे ।। ३८.
सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह। भविष्यस्य भविष्यन्ति समासात्तु निबोधत ।। ३८.
अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः। कौशिको गातवश्चैव जामदग्न्यश्च भार्गवः ।। ३८.
द्वैपायनो वसिष्ठश्च कृपः शारद्वतस्तथा। आत्रेयो दीप्तिमांश्चैव ऋष्यश्रृङ्गस्तु काश्यपः ।। ३८.
भारद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः। एते सप्त महात्मानो भविष्याः परमर्षयः ।। ३८.
सुतपा श्चामिताभाश्च सुखाश्चैव गणास्त्रयः। तेषां गणास्तु देवानां एकैको विंशकः स्मृतः ।। ३८.