यः स वै प्रोच्यतेविप्रः कश्यपस्येति कृत्रिमः। दक्षशापभयाद्भीतो ब्रह्मार्षिस्तेन कर्मणा ।। ४.
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत। मानसः कश्यपस्येह दक्षशापभयात् पुनः ।। ४.
तस्मात् स कश्यपस्याथ द्वितीयं मानसोऽभवत्। स हि पूर्वसमुत्पन्नो नारदः परमेष्ठिनः ।। ४.
येन दक्षस्य पुत्रास्ते हर्यश्वा इति विश्रुताः । निन्दार्थं नाशिताः सर्वे विनष्टाश्च न संशयः ।। ४.
तस्योद्यतस्तदा दक्षः क्रुद्धो नाशाय वै प्रभुः । ब्रह्मर्षीन् वै पुरस्कृत्य याचितः परमेष्ठिना ।। ४.
ततोऽभिसन्धितं चक्रे दक्षस्तु परमेष्ठिना। कन्यायां नारदो मह्यं तव पुत्रो भवत्विति ।। ४.
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने । तस्मात् स नारदो जज्ञे भूयः शान्तो भयादृषिः ।। ४.
तदुपश्रुत्य विप्रास्ते जातकौतूहलाः पुनः । अपृच्छन् वदतां श्रेष्ठं सूतं तत्त्वार्थदर्शिनम् ।। ४.
कथं विनाशिताः पुत्रा नारदेन महात्मना। प्रजापतिसुतास्ते वै प्रजाः प्राचेतसात्मजाः ।। ४.
स तथ्यं वचनं श्रुत्वा जिज्ञासासम्भवं शुभम् । प्रोवाच मधुरं वाक्यं तेषां सर्वगुणान्वितम् ।। ४.
दक्षपुत्राश्च हर्यश्वा विवर्द्धयिषवः प्रजाः। समागता महावीर्या नारदस्तानुवाच ह ।। ४.
बालिशा बल यूयं वै न प्रजानीथ भूतलम्। अन्तमूर्द्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ।। ४.
किं प्रमाणन्तु मेदिन्याः स्रष्टव्यानि तथैव च। अविज्ञायेह स्रष्टव्यमन्यथा किं नु स्रक्ष्यथ। अल्पं वापि बहुर्वापि तत्र दोषस्तु दृश्यते ।। ४.
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्। वायुन्तु समनुप्राप्य गतास्ते वै पराभवम् ।। ४.
अद्यापि न निवर्त्तन्ते भ्रमन्तो वायुमिश्रिताः । एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ।। ४.
स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः। वैरिम्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ।। ४.
प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते। पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ।। ४.
तच्छ्रत्वा वचनं सर्वे कुमारास्ते महौजसः। अन्योऽन्यमूचुस्ते सर्वे सम्यगाह महानृषिः। भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ।। ४.
ज्ञात्वा प्रमाणं पृत्व्याश्च सुखं स्रक्ष्यामहे प्रजाः। तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम्। अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ।। ४.
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः। प्रयातो नश्यति तथा तन्न कार्यं विजानता ।। ४.
नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः। नारदं नाशमेहीति गर्भवासं वसेति च ।। ४.
तथा तेष्वपि नष्टेषु महात्मसु पुरा किल। षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ।। ४.
तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः। धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ।। ४.
इमा विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः। आयुष्मान् कीर्त्तिमान् धन्यः प्रजानांश्च भवत्युत ।। ४.
देवानां दानवानाञ्च दैत्यानाञ्चैव सर्वशः। उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ।। ५.
धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत। अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।। ५.
सङ्कल्पा च मुहूर्ता च साध्या विश्वा तथैव च। धर्मपत्न्यो दशत्वेता दक्षः प्राचेतसो ददौ ।। ५.
साध्या पुत्रांस्तु धर्मस्य साध्यान् द्वादश जज्ञिरे। साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः। देवेभ्यस्तान् परान् देवान् देवज्ञाः परिचक्षिरे ।। ५.
ब्रह्मणो वै मुखात् सृष्टा जया देवाः प्रजेप्सया। सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ।। ५.
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् । चित्तिश्चैव विचित्तिश्च आकूतिः कूतिरेव च ।। ५.