सप्तर्षयस्तदा प्राहुः प्रतीपे राज्ञि वै शतम्। सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ।। ३७.
सप्तविंशतिपर्य्यन्ते कृत्स्ने नक्षत्रमण्डले। सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम्। सप्तर्षीणां युगं ह्येतद्दिव्यया सङ्ख्यया स्मृतम् ।। ३७.
सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः । तेभ्यः प्रवर्त्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ।। ३७.
सप्तर्षीणान्तु ये पूर्वा दृश्यन्ते उत्तरादिशि। ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिवि ।। ३७.
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः। नक्षत्राणामृषीणाञ्च योगस्यैतन्निदर्शनम् ।। ३७.
सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम्। अन्ध्रांशे स चतुर्व्विशे भविष्यन्ति मते मम ।। ३७.
इमास्तदा तु प्रकृतिर्व्यापत्स्यन्ति प्रजा भृशम्। अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ।। ३७.
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा। शङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः ।। ३७.
संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः। ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ।। ३७.
उपस्थास्यन्ति तान् विप्रास्तदा वै वृत्तिलिप्सवः । लवं लवं भ्रस्यमानाः प्रजाः सर्वाः क्रमेण तु ।। ३७.
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये। यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा दिने ।। ३७.
प्रतिपन्नः कलियुगस्तस्य सङ्ख्यां निबोधत। सहस्राणां शतानीह त्रीणि मानुषसङ्ख्यया। षष्टिं चैव सहस्राणि वर्षाणामुच्यते कलिः ।। ३७.
दिव्ये वर्षसहस्रन्तु तत्सन्ध्यांशं प्रकीर्त्तितम्। निःशेषे च तदा तस्मिन् कृतं वै प्रतिपत्स्यते ।। ३७.
ऐल इक्ष्वाकुवंशश्च सह भेदैः प्रकीर्त्तितौ। इक्ष्वाकोस्तु स्मृतः क्षत्रः सुमित्रान्तं विवस्वतः ।। ३७.
ऐलं क्षत्रं क्षेमकान्तं सोमवंशविदो विदुः। एते विवस्वतः पुत्राः कीर्त्तिताः कीर्त्तिवर्द्धनाः ।। ३७.
अतीता वर्त्तमानाश्च तथैवानागताश्च ये। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्वये स्मृताः ।। ३७.
युगे युगे महात्मानः समतीताः सहस्रशः। बहुत्वान्नामधेयानां परिसंख्या कुले कुले ।। ३७.
पुनरुक्ता बहुत्वाच्च न मया परिकीर्त्तिता। वैवस्वतेऽन्तरे ह्यस्मिन् निमिवंशः समाप्यते ।। ३७.
एवायान्तु युगाख्यायां यतः क्षत्रं प्रपत्स्यते । तथा हि कथयिष्यामि गदतो मे निबोधत ।। ३७.
देवापिः पौरवो राजा इक्ष्वाकोश्चैव यो मतः। महायोगबलोपेतः कलापग्राममास्थितः ।। ३७.
सुवर्च्चाः सोमपुत्रस्तु इक्ष्वाकोस्तु भविष्यति। एतौ क्षत्रप्रणेतारौ चतुर्विंशे चतुर्युगे ।। ३७.
न च विंशे युगे सोमवंशस्यादिर्भविष्यति। देवापिरसपत्नस्तु ऐलादिर्भविता नृपः ।। ३७.
क्षत्रप्रापर्त्तकौ ह्येतौ भविष्येते चतुर्युगे। एवं सर्वत्र विज्ञेयं सन्तानार्थे तु लक्षणम् ।। ३७.
क्षीणे कलियुगे तस्मिन् भविष्ये तु कृते युगे। सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ।। ३७.
गोत्राणां क्षत्रियाणाञ्च भविष्येते प्रवर्त्तकौ। द्वापरांशे न तिष्ठन्ति क्षत्रिया ऋषिभिः सह ।। ३७.
काले कृतयुगे चैव क्षीणे त्रेतायुगे पुनः। बीजार्थन्ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ।। ३७.
एवमेव तु सर्वेषु तिष्ठन्तीहान्तरेषु वै । सप्तर्षयो नृपैः सार्द्धं सन्तानार्थं युगे युगे ।। ३७.
क्षत्रस्यैव समुच्छेदः सम्बन्धो वै द्विजैः स्मृतः। मन्वन्तराणां सप्तानां सन्तानाश्च श्रुताश्च ते ।। ३७.
परम्परा युगानाञ्च ब्रह्मक्षत्रस्य चोद्भवः। यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ।। ३७.
सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाक्षयन्तु ते। एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ।। ३७.