असाधना हताश्वासा व्याधिशोकेन पीडिताः। अनावृष्टिहताश्चैव परस्परवधेन च ।। ३७.
अनाथा हि परित्रस्ता वार्त्तामुत्सृज्य दुःखिताः। त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ।। ३७.
एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु। नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ।। ३७.
वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः। सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ।। ३७.
सरितः सागरानूपान् सेवन्ते पर्वतानि च। अङ्गान् कलिङ्गान् वङ्गांश्च काश्मीरान् काशिकोशलान् ।। ३७.
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः। कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ।। ३७.
अरण्यान्यभिपत्स्यन्ति ह्यार्य्या म्लेच्छजनैः सह। मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा। मधुशाकफलैर्मूलैर्वर्त्तयिष्यन्ति मानवाः ।। ३७.
चीरं पर्णञ्च विविधं वल्कलान्यजिनानि च। स्वयं कृत्वा विवत्स्यन्ति यथा मुनिजनास्तथा ।। ३७.
बीजान्नानि तथा निम्नेस्वीहन्तः काष्ठशङ्कुभिः। अजैडकं खरोष्ट्रञ्च पालयिष्यन्ति यत्नतः ।। ३७.
नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः। पार्थिवान् व्यवहारेण विबाधन्तः परस्परम् ।। ३७.
बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः। एवं भविष्यन्ति नरास्तदाधर्म्मे व्यवस्थिताः ।। ३७.
हीनाद्धीनांस्तथा धर्म्मान् प्रजाः समनुवर्त्तते। आयुस्तदा त्रयोविंशं न कश्चिदतिवर्त्तते ।। ३७.
दुर्बला विषयग्लाना जरया संपरिप्लुताः। पत्रमूलफलाहाराश्चीरकृष्णाजिनाम्बराः ।। ३७.
वृत्त्यर्थमभिलिप्सन्तश्चरिष्यन्ति वसुन्धराम्। एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके ।। ३७.
क्षीणे कलियुगे तस्मिन् दिव्ये वर्षसहस्रके। निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु। ससन्ध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ।। ३७.
यदा चन्द्रश्च सूर्य्यश्च तथा तिष्यबृहस्पती। एकरात्रे भरिष्यन्ति तदा कृतयुगं भवेत् ।। ३७.
एष वंशक्रमः कृत्स्नं कीर्तितो वो यथाक्रमम्। अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।। ३७.
महादेवाभिषेकात्तु जन्म यावत्परिक्षितः। एतद्वर्षसहस्रन्तु ज्ञेयं पञ्चादशदुत्तरम् ।। ३७.
प्रमाणं वै तथा चोक्तं महापद्मान्तरं च यत्। अन्तरं तच्छतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ।। ३७.
एतत्कालान्तरं भाव्या अन्ध्रान्ता ये प्रकीर्त्तिताः। भविष्यैस्तत्र सङ्ख्याताः पुराणज्ञैः श्रुतर्षिभिः ।। ३७.
सप्तर्षयस्तदा प्राहुः प्रतीपे राज्ञि वै शतम्। सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते त्वया पुनः ।। ३७.
सप्तविंशतिपर्य्यन्ते कृत्स्ने नक्षत्रमण्डले। सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम्। सप्तर्षीणां युगं ह्येतद्दिव्यया सङ्ख्यया स्मृतम् ।। ३७.
सा सा दिव्या स्मृता षष्टिर्दिव्याह्नाश्चैव सप्तभिः । तेभ्यः प्रवर्त्तते कालो दिव्यः सप्तर्षिभिस्तु तैः ।। ३७.
सप्तर्षीणान्तु ये पूर्वा दृश्यन्ते उत्तरादिशि। ततो मध्येन च क्षेत्रं दृश्यते यत्समं दिवि ।। ३७.
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः। नक्षत्राणामृषीणाञ्च योगस्यैतन्निदर्शनम् ।। ३७.
सप्तर्षयो मघायुक्ताः काले पारिक्षिते शतम्। अन्ध्रांशे स चतुर्व्विशे भविष्यन्ति मते मम ।। ३७.
इमास्तदा तु प्रकृतिर्व्यापत्स्यन्ति प्रजा भृशम्। अनृतोपहताः सर्वा धर्मतः कामतोऽर्थतः ।। ३७.
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा। शङ्करं दुर्बलात्मानः प्रतिपत्स्यन्ति मोहिताः ।। ३७.
संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः। ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः ।। ३७.
उपस्थास्यन्ति तान् विप्रास्तदा वै वृत्तिलिप्सवः । लवं लवं भ्रस्यमानाः प्रजाः सर्वाः क्रमेण तु ।। ३७.