उत्साद्य पार्थिवान् सर्व्वान्सोऽन्यान् वर्णान् करिष्यति। कैवर्त्तान् पञ्चकांश्चैव पुलिन्दान् ब्राह्मणांस्तथा ।। ३७.
स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा। विश्वस्फानिर्महासत्त्वो युद्धे विष्णुसमो बली ।। ३७.
विश्वस्फानिर्नरपतिः क्लीबा कृतिरिवोच्यते। उत्सादयित्वा क्षत्रन्तु क्षत्रमन्यत् करिष्यति ।। ३७.
देवान् पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः। जाह्नवीतीरमासाद्य शरीरं यस्यते बली ।। ३७.
संन्यस्य स्वशरीरन्तु शक्रलोकं गमिष्यति। नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ।। ३७.
मथुराञ्च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै। अनुगङ्गं प्रयागञ्च साकेतं मगधांस्तथा। एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ते गुप्तवंशजाः ।। ३७.
निषधान् यदुकांश्चैव शैशी तान् कालतोपकान्। एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ति मणिधान्यजाः ।। ३७.
कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान् ससागरान्। चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवरक्षिताम् ।। ३७.
कालिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये। एताञ्जनपदान् सर्व्वान् पालयिष्यति वै गुहः ।। ३७.
स्त्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः। तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ।। ३७.
अल्पप्रसादा ह्यनृता महाक्रोधाः ह्यधार्मिकाः। भविष्यन्तीह यवना धर्मतः कामतोऽर्थतः ।। ३७.
नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः। युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ।। ३७.
स्त्रीणां बलवधेनैव हत्वा चैव परस्परम्। भोक्ष्यन्ति कलिशेषे तु वसुधां पार्थिवास्तथा ।। ३७.
उदितोदितवंशास्ते उदितास्तमितास्तथा । भविष्यन्तीह पर्याये कालेन पृथिवीक्षितः ।। ३७.
विहीनास्तु भविष्यन्ति धर्म्मतः कामतोऽर्थतः। तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः ।। ३७.
विपर्य्ययेन वर्त्तन्ते नाशयिष्यन्ति वै प्रजाः। लुब्धानृतरताश्चैव भवितारस्तदा नृपाः ।। ३७.
तेषां व्यतीते पर्याये बहुस्त्रीके युगे तदा। लवाल्लवं भ्रश्यमाना आयूरूपबलश्रुतैः ।। ३७.
तथा गतास्तु वै काष्ठां प्रजासु जगतीश्वराः । राजानः सम्प्रणश्यन्ति कालेनोपहतास्तदा ।। ३७.
कल्किनोपहताः सर्वे म्लेच्छा यास्यन्ति सर्वशः। अधार्मिकाश्च तेऽत्यर्थं पाषण्डाश्चैव सर्वशः ।। ३७.
प्रनष्टे नृपशब्दे च सन्ध्याश्लिष्टे कलौ युगे। किंञ्चिच्छिष्टाः प्रजास्ता वै धर्म्मे नष्टेऽपरिग्रहाः ।। ३७.
असाधना हताश्वासा व्याधिशोकेन पीडिताः। अनावृष्टिहताश्चैव परस्परवधेन च ।। ३७.
अनाथा हि परित्रस्ता वार्त्तामुत्सृज्य दुःखिताः। त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ।। ३७.
एवं नृपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु। नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनाः ।। ३७.
वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः। सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ।। ३७.
सरितः सागरानूपान् सेवन्ते पर्वतानि च। अङ्गान् कलिङ्गान् वङ्गांश्च काश्मीरान् काशिकोशलान् ।। ३७.
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः। कृत्स्नं हिमवतः पृष्ठं कूलं च लवणाम्भसः ।। ३७.
अरण्यान्यभिपत्स्यन्ति ह्यार्य्या म्लेच्छजनैः सह। मृगैर्मीनैर्विहङ्गैश्च श्वापदैस्तक्षुभिस्तथा। मधुशाकफलैर्मूलैर्वर्त्तयिष्यन्ति मानवाः ।। ३७.
चीरं पर्णञ्च विविधं वल्कलान्यजिनानि च। स्वयं कृत्वा विवत्स्यन्ति यथा मुनिजनास्तथा ।। ३७.
बीजान्नानि तथा निम्नेस्वीहन्तः काष्ठशङ्कुभिः। अजैडकं खरोष्ट्रञ्च पालयिष्यन्ति यत्नतः ।। ३७.
नदीर्वत्स्यन्ति तोयार्थे कूलमाश्रित्य मानवाः। पार्थिवान् व्यवहारेण विबाधन्तः परस्परम् ।। ३७.