समाः शतानि चत्वारि पञ्च षड्वै तथैव च। अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ।। ३७.
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः। सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ।। ३७.
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश। त्रयोदश मरुण्डाश्च मौना ह्यष्टादशैव तु ।। ३७.
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै। शतानि त्रीण्यशीतिञ्च भोक्ष्यन्ति वसुधां शकाः ।। ३७.
अशीतिञ्चैव वर्षाणि भोक्तारो यवना महीम्। पञ्चवर्षशतानीह तुषाराणां मही स्मृता ।। ३७.
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश। मरुण्डा वृषलैः सार्द्धं भाव्यान्या म्लेच्छजातयः ।। ३७.
शतानि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु। तच्छन्नेन च कालेन ततः कोलिकिला वृषाः ।। ३७.
ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति। समाः षण्णवतिं त्रात्वा पृथिवीं च समेष्यति ।। ३७.
वृषान् वै दिशकांश्चापि भविष्याश्च निबोधत। शेषस्य नागराजस्य पुत्रः स्वरपुरञ्जयः ।। ३७.
भोगी भविष्यते राजा नृपो नागकुलोद्वहः। सदाचन्द्रस्तु चन्द्रांशो द्वितीयो नखवांस्तथा ।। ३७.
धनधर्मा ततश्चापि चतुर्थो विंशजः स्मृतः। भूतिनन्दस्ततश्चापि वैदेशे तु भविष्यति ।। ३७.
अङ्गानां नन्दनस्यान्ते मधुनन्दिर्भविष्यति। तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ।। ३७.
तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वै। दोहित्रः शिशुको नाम पुरिकायां नृपोऽभवत् ।। ३७.
विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् । भोक्ष्यन्ति च समाः षष्टिं पुरीं काञ्चनकाञ्च वै ।। ३७.
यक्ष्यन्ति वाजपेयैश्च समाप्तवरदक्षिणैः। तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ।। ३७.
विन्ध्यकानां कुलेऽतीते नृपा वै बाह्लिका स्त्रयः। सुप्रतीको नभीरस्तु समा भोक्ष्यति त्रिंशतिम् ।। ३७.
शक्यमा नाम वै राजा माहिषीनां महीपतिः। पुष्पमित्रा भविष्यन्ति पट्टमित्रास्त्रयोदश ।। ३७.
मेकलायां नृपाः सप्त भविष्यन्ति च सत्तमाः। कोमलायान्तु राजानो भविष्यन्ति महाबलाः ।। ३७.
मेघा इति समाख्याता बुद्धिमन्तो नवैव तु। नैषधाः पार्थिवाः सर्व्वे भविष्यन्त्यामनुक्षयात् ।। ३७.
नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः। मागधानां महावीर्यो विश्वस्फानिर्भविष्यति ।। ३७.
उत्साद्य पार्थिवान् सर्व्वान्सोऽन्यान् वर्णान् करिष्यति। कैवर्त्तान् पञ्चकांश्चैव पुलिन्दान् ब्राह्मणांस्तथा ।। ३७.
स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा। विश्वस्फानिर्महासत्त्वो युद्धे विष्णुसमो बली ।। ३७.
विश्वस्फानिर्नरपतिः क्लीबा कृतिरिवोच्यते। उत्सादयित्वा क्षत्रन्तु क्षत्रमन्यत् करिष्यति ।। ३७.
देवान् पितॄंश्च विप्रांश्च तर्पयित्वा सकृत्पुनः। जाह्नवीतीरमासाद्य शरीरं यस्यते बली ।। ३७.
संन्यस्य स्वशरीरन्तु शक्रलोकं गमिष्यति। नवनाकास्तु भोक्ष्यन्ति पुरीं चम्पावतीं नृपाः ।। ३७.
मथुराञ्च पुरीं रम्यां नागा भोक्ष्यन्ति सप्त वै। अनुगङ्गं प्रयागञ्च साकेतं मगधांस्तथा। एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ते गुप्तवंशजाः ।। ३७.
निषधान् यदुकांश्चैव शैशी तान् कालतोपकान्। एताञ्जनपदान् सर्व्वान् भोक्ष्यन्ति मणिधान्यजाः ।। ३७.
कोशलांश्चान्ध्रपौण्ड्रांश्च ताम्रलिप्तान् ससागरान्। चम्पां चैव पुरीं रम्यां भोक्ष्यन्ति देवरक्षिताम् ।। ३७.
कालिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये। एताञ्जनपदान् सर्व्वान् पालयिष्यति वै गुहः ।। ३७.
स्त्रीराष्ट्रं भक्ष्यकांश्चैव भोक्ष्यते कनकाह्वयः। तुल्यकालं भविष्यन्ति सर्वे ह्येते महीक्षितः ।। ३७.