पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः। भविता चापि तज्ज्येष्ठः सप्तवर्षाणि वै ततः ।। ३७.
वसुमित्रः सुतो भाव्यो दशवर्षाणि पार्थिवः। ततो ध्रुकः समा द्वे तु भविष्यति सुतश्च वै ।। ३७.
भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः। राजा घोषसुतश्चापि वर्षाणि भविता त्रयः ।। ३७.
ततो वै विक्रमित्रस्तु समा राजा ततः पुनः। द्वात्रिंशद्भविता चापि समा भागवतो नृपः ।। ३७.
भविष्यति सुतस्तस्य क्षेमभूमिः समा दश। दशैते तुङ्गराजानो भोक्ष्यन्तीमां वसुन्धरम् ।। ३७.
शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति। अपार्थिवसुदेवन्तु बाल्याद्व्यसनिनं नृपम् ।। ३७.
देवभूमिस्ततोऽन्यश्च श्रृङ्गेषु भविता नृपः। भविष्यति समा राजा नव कण्ठायनस्तु सः ।। ३७.
भूतिमित्रः सुतस्तस्य चतुर्व्विंशद्भविष्यति। भविता द्वादश समास्तस्मान्नारायणो नृपः ।। ३७.
सुशर्म्मा तत्सुतश्चापि भविष्यति समा दश। चतुरस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ।। ३७.
भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च। तेषां पर्य्यायकाले तु तरन्धा तु भविष्यति ।। ३७.
कण्ठायनमथोद्धृत्य सुशर्म्माणं प्रसह्य तम्। श्रृङ्गाणां चापि यच्छिष्टं क्षययित्वा बलं तदा। सिन्धुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुन्धराम् ।। ३७.
त्रयोविंशत्समा राजा सिन्धुको भविता त्वथ। अष्टौ भातश्च वर्षाणि तस्माद्दश भविष्यति ।। ३७.
श्रीसातकर्णिर्भविता तस्य पुत्रस्तु वै महान्। पञ्चाशतं समाः षट् च सातकर्णिर्भविष्यति ।। ३७.
आपादबद्धो दश वै तस्य पुत्रो भविष्यति। चतुर्व्विंशत्तु वर्षाणि षट् समा वै भविष्यति ।। ३७.
भविता नेमिकृष्णस्तु वर्षाणां पञ्चविंशतिम्। ततः संवत्सरं पूर्णं हालो राजा भविष्यति ।। ३७.
पञ्च सप्तक राजानो भविष्यन्ति महाबलाः। भाव्यः पुत्रिकषेणस्तु समाः सोऽप्येकविंशतिम् ।। ३७.
सातकर्णिर्वर्षमेकं भविष्यति नराधिपः। अष्टाविंशत्तु वर्षाणि शिवस्वामी भविष्यति ।। ३७.
राजा च गौतमीपुत्र एकविंशत्समा नृषु। एकोनविंशतिं राजा यज्ञश्रीः सातकर्ण्यथ ।। ३७.
षडेव भविता तस्माद्विजयस्तु समा नृपः। दण्डश्रीः सातकर्णी च तस्य पुत्रः समास्त्रयः ।। ३७.
पुलोवापि समाः सप्त अन्येषाञ्च भविष्यति । इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति ये महीम् ।। ३७.
समाः शतानि चत्वारि पञ्च षड्वै तथैव च। अन्ध्राणां संस्थिताः पञ्च तेषां वंशाः समाः पुनः ।। ३७.
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः। सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः ।। ३७.
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश। त्रयोदश मरुण्डाश्च मौना ह्यष्टादशैव तु ।। ३७.
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतं च वै। शतानि त्रीण्यशीतिञ्च भोक्ष्यन्ति वसुधां शकाः ।। ३७.
अशीतिञ्चैव वर्षाणि भोक्तारो यवना महीम्। पञ्चवर्षशतानीह तुषाराणां मही स्मृता ।। ३७.
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश। मरुण्डा वृषलैः सार्द्धं भाव्यान्या म्लेच्छजातयः ।। ३७.
शतानि त्रीणि भोक्ष्यन्ति म्लेच्छा एकादशैव तु। तच्छन्नेन च कालेन ततः कोलिकिला वृषाः ।। ३७.
ततः कोलिकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति। समाः षण्णवतिं त्रात्वा पृथिवीं च समेष्यति ।। ३७.
वृषान् वै दिशकांश्चापि भविष्याश्च निबोधत। शेषस्य नागराजस्य पुत्रः स्वरपुरञ्जयः ।। ३७.
भोगी भविष्यते राजा नृपो नागकुलोद्वहः। सदाचन्द्रस्तु चन्द्रांशो द्वितीयो नखवांस्तथा ।। ३७.