अष्टाविंशत्समा राजा विविसारो भविष्यति। पञ्चविंशत्समा राजा दर्शकस्तु भविष्यति ।। ३७.
उदायी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः। स वै पुरवरं राजा पृथिव्यां कुसुमाह्वयम्। गङ्गाया दक्षिणे कूले चतुर्थेऽब्दे करिष्यति ।। ३७.
द्वाचत्वारिंशत्समा भाव्यो राजा वै नन्दिवर्द्धनः। चत्वारिंशत्त्रयञ्चैव महा नन्दी भविष्यति ।। ३७.
इत्येते भवितारौ वै शैशुनाका नृपा दश। अतानि त्रीणि वर्षाणि द्विषष्ट्यभ्यधिकानि तु ।। ३७.
शैशुनाका भविष्यन्ति तावत्कालं नृपाः परे। एतैः सार्द्धं भविष्यंति राजानः क्षत्रबान्धवाः ।। ३७.
ऐक्ष्वाकवाश्चतुर्विंशत्पाञ्चालाः पञ्चविंशतिः। कालकास्तु चतुर्व्विंशच्चतुर्व्विंशत्तु हैहयाः ।। ३७.
द्वात्रिंशद्वै कलिङ्गास्तु पञ्चविंशत्तथा शकाः। कुरवश्चापि षड्विंशदष्टाविंशति मैथिलाः ।। ३७.
शूरसे नास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः। तुल्यकालं भविष्यन्ति सर्व एव महीक्षितः ।। ३७.
महानन्दिसुतश्चापि शूद्रायां कालसंवृतः। उत्पत्स्यते महापद्मः सर्वक्षत्रान्तरे नृपः ।। ३७.
ततःप्रभृति राजानो भविष्याः शूद्रयोनयः। एकराट् स महापद्म एकच्छत्रो भविष्यति ।। ३७.
अष्टा विंशतिवर्षाणि पृथिवीं पालयिष्यति। सर्वक्षत्रहृतोद्धृत्य भाविनोऽर्थस्य वै बलात् ।। ३७.
सहस्रास्तत्सुता ह्यष्टौ समा द्वादश ते नृपाः ३७.
उद्धरिष्यति तान् सर्वान् कौटिल्यो वै द्विरष्टभिः। भुक्त्वा महीं वर्षशतं नन्देन्दुः स भविष्यति ।। ३७.
चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति। चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ।। ३७.
भविता भद्र सारस्तु पञ्चविंशत्समा नृपः। षड्विंशत्तु समा राजा ह्यशोको भविता नृषु ।। ३७.
तस्य पुत्रः कुनालस्तु वर्षाण्यष्टौ भविष्यति। कुनाल सूनुरष्टौ च भोक्ता वै बन्धुपालितः ।। ३७.
बन्धुपालितदायादो दशमानीन्द्रपालितः। भविता सप्तवर्षाणि देववर्म्मा नराधिपः ।। ३७.
राजा शतधरश्चाष्टौ तस्य पुत्रो भविष्यति। बृहदश्वश्च वर्षाणि सप्त वै भविता नृपः ।। ३७.
इत्येते नव भूपा ये भोक्ष्यन्ति च वसुन्धराम्। सप्तत्रिंशच्छतं पूर्णं तेभ्यस्तु गौर्भविष्यति ।। ३७.
पुष्पमित्रस्तु सेनानीरुद्धृत्य वै बृहद्रथम्। कारयिष्यति वै राज्यं समाः षष्टिं सदैव तु ।। ३७.
पुष्पमित्रसुताश्चाष्टौ भविष्यन्ति समा नृपाः। भविता चापि तज्ज्येष्ठः सप्तवर्षाणि वै ततः ।। ३७.
वसुमित्रः सुतो भाव्यो दशवर्षाणि पार्थिवः। ततो ध्रुकः समा द्वे तु भविष्यति सुतश्च वै ।। ३७.
भविष्यन्ति समास्तस्मात्तिस्र एव पुलिन्दकाः। राजा घोषसुतश्चापि वर्षाणि भविता त्रयः ।। ३७.
ततो वै विक्रमित्रस्तु समा राजा ततः पुनः। द्वात्रिंशद्भविता चापि समा भागवतो नृपः ।। ३७.
भविष्यति सुतस्तस्य क्षेमभूमिः समा दश। दशैते तुङ्गराजानो भोक्ष्यन्तीमां वसुन्धरम् ।। ३७.
शतं पूर्णं दश द्वे च तेभ्यः किं वा गमिष्यति। अपार्थिवसुदेवन्तु बाल्याद्व्यसनिनं नृपम् ।। ३७.
देवभूमिस्ततोऽन्यश्च श्रृङ्गेषु भविता नृपः। भविष्यति समा राजा नव कण्ठायनस्तु सः ।। ३७.
भूतिमित्रः सुतस्तस्य चतुर्व्विंशद्भविष्यति। भविता द्वादश समास्तस्मान्नारायणो नृपः ।। ३७.
सुशर्म्मा तत्सुतश्चापि भविष्यति समा दश। चतुरस्तुङ्गकृत्यास्ते नृपाः कण्ठायना द्विजाः ।। ३७.
भाव्याः प्रणतसामन्ताश्चत्वारिंशच्च पञ्च च। तेषां पर्य्यायकाले तु तरन्धा तु भविष्यति ।। ३७.