किन्नरस्तु सुनक्षत्राद्भविष्यति परंतपः। भविता चान्तरिक्षस्तु किन्नरस्य सुतो महान् ।। ३७.
अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित्। पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः। पुत्रः कृतञ्जयो नाम धर्मिणः स भविष्यति। कृतञ्जयसुतो व्रातो तस्य पुत्रो रणञ्जयः ।। ३७.
भविता सञ्जयश्चापि वीरो राजा रणञ्जयात्। सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ।। ३७.
शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः। प्रसेनजित्ततो भाव्यः क्षुद्रको भविता ततः ।। ३७.
क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः। सुमित्रः सुरथस्यापि अन्त्यश्च भविता नृपः ।। ३७.
एते ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे। बृहद्बलान्वये जाता भवितारः कलौ युगे। शूराश्च कृतविद्याश्च सत्यसन्धा जितेन्द्रियाः ।। ३७.
अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः। इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति। सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ। इत्येतन्मानवं क्षेत्रमैलञ्च समुदाहृतम् ।। ३७.
अत ऊर्द्ध्वं प्रवक्ष्यामि मागधेयान्बृहद्रथान्। जरासन्धस्य ये वंशे सहदेवान्वये नृपाः ।। ३७.
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः। प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ।। ३७.
संग्रामे भारते तस्मिन् सहदेवो निपातितः। सोमाधिस्तस्य तनयो राजर्षिः सगिरिव्रजे ।। ३७.
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत्। श्रुतश्रवाः चतुःषष्टिसमास्तस्य सुतोऽभवत्। अयुतायुस्तु षड्विंशं राज्यं वर्षाण्यकारयत्। समाः शतं निरामित्रो महीं भुक्त्वा दिवङ्गतः ।। ३७.
पञ्चाशतं समाः षट् च सुकृत्तः प्राप्तवान्महीम्। त्रयोविंशं बृहत्कर्मा राज्यं वर्षाण्यकारयत् ।। ३७.
सेनाजित्साम्प्रतं चापि एतां वै भुज्यते समाः। श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति ।। ३७.
महाबाहुर्महाबुद्धिर्महाभीमपराक्रमः। पञ्चत्रिंशत्तु वर्षाणि महीं पालयिता नृपः ।। ३७.
अष्टपञ्चा शतं चाब्दान् राज्ये स्थास्यति वै शुचिः। अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति ।। ३७.
भुवतस्तु चतुःषष्टीराज्यं प्राप्स्यति वीर्य्यवान्। पञ्चवर्षाणि पूर्णानि धर्मनेत्रो भविष्यति ।। ३७.
भोक्ष्यते नृपतिश्चैव ह्यष्टपञ्चाशतं समाः। अष्टात्रिंशत्समा राज्यं सुव्रतस्य भविष्यति ।। ३७.
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति। त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः ।। ३७.
द्वाविंशतिसमा राज्यं सुचलो भोक्ष्यते ततः। चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ।। ३७.
सत्यजित्पृथिवीराज्यं त्र्यशीतिं भोक्ष्यते समाः। प्राप्येमां वीरजिच्चापि पञ्चत्रिंशद्भविष्यति ।। ३७.
अरीञ्जयस्तु वर्षाणि पञ्चाशत्प्राप्स्यते महीम्। द्वात्रिंशच्च नृपा ह्येते भवितारो बृहद्रथाः ।। ३७.
पूर्णं वर्षसहस्रं वै तेषां राज्यं भविष्यति। बृहद्रथेष्वतीतेषु वीतहोत्रेषु वर्तिषु ।। ३७.
मुनिकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति। मिषतां क्षत्रियाणां हि प्रद्योतो मुनिको बलात् ।। ३७.
स वै प्रणतसामन्तो भविष्ये नयवर्ज्जितः । त्रयोविंशत्समा राजा भविता स नरोत्तमः ।। ३७.
चतुर्विंशत्समा राजा पालको भविता ततः। विशाखयूपो भविता नृपः पञ्चाशतीं समाः ।। ३७.
एकत्रिंशत्समा राज्यमजकस्य भविष्यति। भविष्यति समा विंशत्तत्सुतो वर्त्तिवर्द्धनः ।। ३७.
अष्टात्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते सुताः। हत्वा तेषां यशः कृत्स्नं शिशुनाको भविष्यति ।। ३७.
वाराणस्यां सुतस्तस्य संप्राप्स्यति गिरिव्रजम्। शिशुनाकस्य वर्षाणि चत्वारिंशद्भविष्यति ।। ३७.
शकवर्णः सुतस्तस्य षट्त्रिंशच्च भविष्यति। ततस्तु विंशतिं राजा क्षेमवर्मा भविष्यति ।। ३७.
अजातशत्रूर्भविता पञ्चविंशत्समा नृपः। चत्वारिंशत्समा राज्यं क्षत्रौजाः प्राप्स्यते ततः ।। ३७.