ऐलांश्चैव तथेक्ष्वाकून् सौद्युम्नांश्चैव पार्थिवान्। येषु संस्थाप्यते क्षेत्रणैक्ष्वाकवमिदं शुभम् ।। ३७.
तान् सर्वान् कीर्त्तयिष्यामि भविष्ये पठितान्नृपान्। तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः ।। ३७.
क्षत्राः पारशवाः शूद्रास्तथा ये च द्विजातयः। अन्धाः शकाः पुलिन्दाश्च तूलिका यवनैः सह ।। ३७.
कैवर्त्ताभीरशबरा ये चान्ये म्लेच्छजातयः। वर्षाग्रतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ।। ३७.
अधिसामकृष्णः सोऽयं साम्प्रतं पौरवान्नृपः। तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ।। ३७.
अधिसामकृष्णपुत्रो निर्वक्रे भविता किल। गङ्गयापहृते तस्मिन्नगरे नागसाह्वये। त्यक्त्वा च तं सुवासञ्च कौशाम्ब्यां स निवत्स्यति ।। ३७.
भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः। शुचिद्रथश्चित्ररथाद्वृतिमांश्च शुचिद्रथात् ।। ३७.
सुषेणो वै महावीर्यो भविष्यति महायशाः। तस्मात्सुषेणाद्भविता सुतीर्थो नाम पार्थिवः ।। ३७.
रुचः सुतीर्थाद्भविता त्रिचक्षो भविता ततः। त्रिचक्षस्य तु दायादो भविता वै सुखीबलः ।। ३७.
सुखीबलसुतश्चापि भाव्यो राजा परिप्लुतः। परिप्लुतसुतश्चापि भविता सुनयो नृपः ।। ३७.
मेधावी सुनयस्याथ भविष्यति नराधिपः। मेधाविनः सुतश्चापि दण्डपाणिर्भविष्यति ।। ३७.
दण्डपाणेर्निरामित्रे निरामित्राच्च क्षेमकः। पञ्चविंशनृपा ह्येते भविष्याः पूर्ववंशजाः ।। ३७.
अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुराविदैः। ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः ।। ३७.
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ। इत्येष पौरवो वंशो यथावदनुकीर्त्तितः ।। ३७.
धीमतः पाण्डुपुत्रस्य ह्यर्जुनस्य महात्मनः। अत ऊर्द्ध्वं प्रवक्ष्यामि इक्ष्वाकूणां महात्मनाम् ।। ३७.
बृहद्रथस्य दायादो वीरो राजा बृहत्क्षयः । ततः क्षयः सुतस्तस्य वत्सव्यूहस्ततः क्षयात् ।। ३७.
वत्सव्यूहात्प्रतिव्यूहस्तस्य पुत्रो दिवाकरः। यश्च सांप्रतमध्यास्त अयोध्यां नगरीं नृपः ।। ३७.
दिवाकरस्य भविता सहदेवो महायशाः। सहदेवस्य दायादो बृहदश्वो भविष्यति ।। ३७.
तस्य भानुरथो भाव्यः प्रतीताश्वश्च तत्सुतः। प्रतीताश्वसुतश्चापि सुप्रतीतो भविष्यति ।। ३७.
सहदेवः सुतस्तस्य सुनक्षत्रश्च तत्सुतः ।। ३७.
किन्नरस्तु सुनक्षत्राद्भविष्यति परंतपः। भविता चान्तरिक्षस्तु किन्नरस्य सुतो महान् ।। ३७.
अन्तरिक्षात्सुपर्णस्तु सुपर्णाच्चाप्यमित्रजित्। पुत्रस्तस्य भरद्वाजो धर्मी तस्य सुतः स्मृतः। पुत्रः कृतञ्जयो नाम धर्मिणः स भविष्यति। कृतञ्जयसुतो व्रातो तस्य पुत्रो रणञ्जयः ।। ३७.
भविता सञ्जयश्चापि वीरो राजा रणञ्जयात्। सञ्जयस्य सुतः शाक्यः शाक्याच्छुद्धोदनोऽभवत् ।। ३७.
शुद्धोदनस्य भविता शाक्यार्थे राहुलः स्मृतः। प्रसेनजित्ततो भाव्यः क्षुद्रको भविता ततः ।। ३७.
क्षुद्रकात्क्षुलिको भाव्यः क्षुलिकात्सुरथः स्मृतः। सुमित्रः सुरथस्यापि अन्त्यश्च भविता नृपः ।। ३७.
एते ऐक्ष्वाकवाः प्रोक्ता भवितारः कलौ युगे। बृहद्बलान्वये जाता भवितारः कलौ युगे। शूराश्च कृतविद्याश्च सत्यसन्धा जितेन्द्रियाः ।। ३७.
अत्रानुवंशश्लोकोऽयं भविष्यज्ञैरुदाहृतः। इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति। सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ। इत्येतन्मानवं क्षेत्रमैलञ्च समुदाहृतम् ।। ३७.
अत ऊर्द्ध्वं प्रवक्ष्यामि मागधेयान्बृहद्रथान्। जरासन्धस्य ये वंशे सहदेवान्वये नृपाः ।। ३७.
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः। प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत ।। ३७.
संग्रामे भारते तस्मिन् सहदेवो निपातितः। सोमाधिस्तस्य तनयो राजर्षिः सगिरिव्रजे ।। ३७.