पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः। द्रौपद्यजनयज्ज्येष्ठं श्रुतिविद्धं युधिष्ठिरात् ।। ३७.
हिडम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम्। काश्याः पुनर्भीमसेनाज्जज्ञे सर्व्ववृकं सुतम् ।। ३७.
सुहोत्रं विजया माद्री सहदेवादजायत। करेमत्यान्तु वैद्यायां निरमित्रस्तु लाङ्गलिः ।। ३७.
सुभद्रायां रथी पार्थादभिमन्युरजायत। उत्तरायान्तु वैराट्यां परिक्षिदभिमन्युजः ।। ३७.
परिक्षितस्तु दायादो राजासीज्जनमेजयः। ब्राह्मणान् स्थापयामास स वै वाजसनेयिकान् ।। ३७.
असपत्नं तदामर्षाद्वैशम्पायन एव तु। न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ।। ३७.
यावत्स्था स्याम्यहं लोके तावन्नैतत्प्रशस्यते। अभितः संस्थितश्चापि ततः स जनमेजयः ।। ३७.
पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम्। विज्ञाय संस्थितोऽपश्यत्तद्वधीष्टां विभोर्मखे ।। ३७.
परिक्षित्तनयश्वापि पौरवो जनमेजयः । द्विरश्वमेधमाहृत्य ततो वाजसनेयकम् । प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्व्वी जनमेजयः ।। ३७.
खर्व्वमश्वकमुख्यानां खर्व्वमङ्गनिवासिनाम्। सर्व्वञ्च मध्यदेशानां त्रिखर्व्वी जनमेजयः । विषादाद्ब्राह्मणैः सार्द्धमभिशस्तः क्षयं ययौ ।। ३७.
तस्य पुत्रः शतनीको बलवान् सत्यविक्रमः । ततः सुतं शतानीकं विप्रास्तमभ्यषेचयत् ।। ३७.
पुत्रोऽश्वमेध दत्तोऽभूच्छतानीकस्य वीर्य्यवान्। पुत्रोऽश्वमेधदत्ताद्वै जातः परपुरंजयः ।। ३७.
अधिसामकृष्णो धर्मात्मा साम्प्रतोऽयं महायशाः। यस्मिन् प्रशासति महीं युष्माभिरिदमाहृतम् ।। ३७.
दुरापं दीर्घसत्रं वै त्रीणि वर्षाणि दुश्चरम्। वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ।। ३७.
ऋषय ऊचुः ।। श्रोतुं भविष्यमिच्छामः प्रजानां वै महामते । सूत सार्द्धं नृपैर्भाव्यं व्यतीतं कीर्त्तितं त्वया ।। ३७.
यत्तु संस्थास्यते कृत्यमुत्पत्स्यन्ति चे ये नृपाः। वर्षाग्रतोऽपि प्रब्रूहि नामतश्चैव तान्नृपान् ।। ३७.
कालं युगप्रमाणञ्च गुणदोषान् भविष्यतः। सुखदुःखे प्रजानाञ्च धर्मतः कामतोऽर्थतः ।। ३७.
एतत्सर्वं प्रसङ्ख्याय पृच्छतां ब्रूहि तत्वतः। स एवमुक्तो मुनिभिः सूतो बुद्धिमतां वरः। आचचक्षे यथावृत्तं यथादृष्टं यथाश्रुतम् ।। ३७.
यथा मे कीर्त्तितं सर्वं व्यासेनाद्भुतकर्म्मणा। भाव्यं कलियुगञ्चैव तथा मन्वन्तराणि तु ।। ३७.
अनागतानि सर्वाणि ब्रुवतो मे निबोधत। अत ऊर्द्ध्वं प्रवक्ष्यामि भविष्यन्ति वृपास्तु ये ।। ३७.
ऐलांश्चैव तथेक्ष्वाकून् सौद्युम्नांश्चैव पार्थिवान्। येषु संस्थाप्यते क्षेत्रणैक्ष्वाकवमिदं शुभम् ।। ३७.
तान् सर्वान् कीर्त्तयिष्यामि भविष्ये पठितान्नृपान्। तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते महीक्षितः ।। ३७.
क्षत्राः पारशवाः शूद्रास्तथा ये च द्विजातयः। अन्धाः शकाः पुलिन्दाश्च तूलिका यवनैः सह ।। ३७.
कैवर्त्ताभीरशबरा ये चान्ये म्लेच्छजातयः। वर्षाग्रतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ।। ३७.
अधिसामकृष्णः सोऽयं साम्प्रतं पौरवान्नृपः। तस्यान्ववाये वक्ष्यामि भविष्ये तावतो नृपान् ।। ३७.
अधिसामकृष्णपुत्रो निर्वक्रे भविता किल। गङ्गयापहृते तस्मिन्नगरे नागसाह्वये। त्यक्त्वा च तं सुवासञ्च कौशाम्ब्यां स निवत्स्यति ।। ३७.
भविष्यदुष्णस्तत्पुत्र उष्णाच्चित्ररथः स्मृतः। शुचिद्रथश्चित्ररथाद्वृतिमांश्च शुचिद्रथात् ।। ३७.
सुषेणो वै महावीर्यो भविष्यति महायशाः। तस्मात्सुषेणाद्भविता सुतीर्थो नाम पार्थिवः ।। ३७.
रुचः सुतीर्थाद्भविता त्रिचक्षो भविता ततः। त्रिचक्षस्य तु दायादो भविता वै सुखीबलः ।। ३७.
सुखीबलसुतश्चापि भाव्यो राजा परिप्लुतः। परिप्लुतसुतश्चापि भविता सुनयो नृपः ।। ३७.