सर्वक्षत्रस्य जेताऽसौ जरासन्धो महाबलः। जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान् ।। ३७.
सहतेवात्मजः श्रीमान् सोमाधिः सुमहातपाः। श्रुतश्रुवस्तु सोमाधेर्मागधः परिकीर्तितः ।। ३७.
परिक्षितस्य दायादो बभूव जनमेजयः। श्रुतसेनस्य दायादो भीमसेनोऽपि नामतः ।। ३७.
जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम्। सुरथस्य तु दायादो वीरो राजा विदूरथः ।। ३७.
विदूरथसुतश्चापि सार्वभौम इति श्रुतिः। सार्वभौमा ज्जयत्सेन आराधिस्तस्य चात्मजः ।। ३७.
आराधितो महासत्त्व अयुतायुस्ततः स्मृतः । अक्रोधनोऽयुतायोऽस्तु तस्माद्देवातिथिः स्मृतः ।। ३७.
देवातिथेस्तु दायाद ऋक्ष एव बभूव ह। भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चात्मजः ।। ३७.
दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः। देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः ।। ३७.
बाह्लीकस्य तु विज्ञेयः सप्तबाह्लीश्वरो नृपः। बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ।। ३७.
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः । देवापिस्तु प्रवव्राज वनं धर्म्मपरीप्सया ।। ३७.
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः। च्यवनोऽस्य हि पुत्रस्तु इष्टकश्च महात्मनः ।। ३७.
शन्तनुस्त्वभवद्राजा विद्वान् वै स महाभिषः । इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् ।। ३७.
यं यं राजा स्पृशति वै जीर्णं समयतो नरम्। पुनर्युवा स भवति तस्मात्ते शन्तनुं विदुः ।। ३७.
ततोऽस्य शन्तनुत्वं वै प्रजास्विह परिश्रुतम्। स उपयेमे धर्म्मात्मा शन्तनु र्जाह्नवीं नृपः ।। ३७.
तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः । स च भीष्म इति ख्यातः पाण्डवानां पितामहः ।। ३७.
काले विचित्रवीर्यन्तु शन्तनु र्जनयत्सुतम्। शन्तनोर्दयितं पुत्रं प्रजाहितकरम्प्रभुम्। कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।। ३७.
धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत्। धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ।। ३७.
तेषां दुर्योधनो ज्येष्ठः सर्व्वक्षत्रस्य स प्रभुः। माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ।। ३७.
देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे। धर्म्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ।। ३७.
इन्द्राद्धनञ्जयो जज्ञे शक्रतुल्यपराक्रमः। अश्विभ्यां सह देवश्च नकुलश्चापि माद्रिजौ ।। ३७.
पञ्चैव पाण्डवेभ्यश्च द्रौपद्यां जज्ञिरे सुताः। द्रौपद्यजनयज्ज्येष्ठं श्रुतिविद्धं युधिष्ठिरात् ।। ३७.
हिडम्बा भीमसेनात्तु जज्ञे पुत्रं घटोत्कचम्। काश्याः पुनर्भीमसेनाज्जज्ञे सर्व्ववृकं सुतम् ।। ३७.
सुहोत्रं विजया माद्री सहदेवादजायत। करेमत्यान्तु वैद्यायां निरमित्रस्तु लाङ्गलिः ।। ३७.
सुभद्रायां रथी पार्थादभिमन्युरजायत। उत्तरायान्तु वैराट्यां परिक्षिदभिमन्युजः ।। ३७.
परिक्षितस्तु दायादो राजासीज्जनमेजयः। ब्राह्मणान् स्थापयामास स वै वाजसनेयिकान् ।। ३७.
असपत्नं तदामर्षाद्वैशम्पायन एव तु। न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि ।। ३७.
यावत्स्था स्याम्यहं लोके तावन्नैतत्प्रशस्यते। अभितः संस्थितश्चापि ततः स जनमेजयः ।। ३७.
पौर्णमास्येन हविषा देवमिष्ट्वा प्रजापतिम्। विज्ञाय संस्थितोऽपश्यत्तद्वधीष्टां विभोर्मखे ।। ३७.
परिक्षित्तनयश्वापि पौरवो जनमेजयः । द्विरश्वमेधमाहृत्य ततो वाजसनेयकम् । प्रवर्त्तयित्वा तद्ब्रह्म त्रिखर्व्वी जनमेजयः ।। ३७.
खर्व्वमश्वकमुख्यानां खर्व्वमङ्गनिवासिनाम्। सर्व्वञ्च मध्यदेशानां त्रिखर्व्वी जनमेजयः । विषादाद्ब्राह्मणैः सार्द्धमभिशस्तः क्षयं ययौ ।। ३७.