तस्यान्ववायजाः ख्याताः कुरवो नृपसत्तमाः। कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च ।। ३७.
परिक्षितो महाराजः पुत्रकश्चारिमर्दनः। सुधन्वनस्तु दायादः सुहोत्रो मतिमान् स्मृतः ।। ३७.
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः। च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महातपाः ।। ३७.
विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः। विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ।। ३७.
विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः। महारथो भगधरो विश्रुतो यो बृहद्रथः ।। ३७.
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्। माथैल्यश्च ललित्थश्च मत्स्यकालश्च सप्तमः ।। ३७.
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः। कुशाग्रस्यात्मजश्चैव ऋषभो नाम वीर्यवान् ।। ३७.
ऋषभस्यापि दायादः पुष्पवान्नाम धार्मिकः। विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ।। ३७.
तस्य पुत्रः सुधन्वा च तस्मादूर्ज्जः प्रतापवान्। ऊर्ज्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ।। ३७.
शकले द्वे स वै जातो जरया सन्धितस्तु सः। जरासन्धो महाबाहुर्जरया सन्धितस्तु सः ।। ३७.
सर्वक्षत्रस्य जेताऽसौ जरासन्धो महाबलः। जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान् ।। ३७.
सहतेवात्मजः श्रीमान् सोमाधिः सुमहातपाः। श्रुतश्रुवस्तु सोमाधेर्मागधः परिकीर्तितः ।। ३७.
परिक्षितस्य दायादो बभूव जनमेजयः। श्रुतसेनस्य दायादो भीमसेनोऽपि नामतः ।। ३७.
जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम्। सुरथस्य तु दायादो वीरो राजा विदूरथः ।। ३७.
विदूरथसुतश्चापि सार्वभौम इति श्रुतिः। सार्वभौमा ज्जयत्सेन आराधिस्तस्य चात्मजः ।। ३७.
आराधितो महासत्त्व अयुतायुस्ततः स्मृतः । अक्रोधनोऽयुतायोऽस्तु तस्माद्देवातिथिः स्मृतः ।। ३७.
देवातिथेस्तु दायाद ऋक्ष एव बभूव ह। भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चात्मजः ।। ३७.
दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः। देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः ।। ३७.
बाह्लीकस्य तु विज्ञेयः सप्तबाह्लीश्वरो नृपः। बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ।। ३७.
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः । देवापिस्तु प्रवव्राज वनं धर्म्मपरीप्सया ।। ३७.
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः। च्यवनोऽस्य हि पुत्रस्तु इष्टकश्च महात्मनः ।। ३७.
शन्तनुस्त्वभवद्राजा विद्वान् वै स महाभिषः । इमं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषम् ।। ३७.
यं यं राजा स्पृशति वै जीर्णं समयतो नरम्। पुनर्युवा स भवति तस्मात्ते शन्तनुं विदुः ।। ३७.
ततोऽस्य शन्तनुत्वं वै प्रजास्विह परिश्रुतम्। स उपयेमे धर्म्मात्मा शन्तनु र्जाह्नवीं नृपः ।। ३७.
तस्यां देवव्रतं भीष्मं पुत्रं सोऽजनयत्प्रभुः । स च भीष्म इति ख्यातः पाण्डवानां पितामहः ।। ३७.
काले विचित्रवीर्यन्तु शन्तनु र्जनयत्सुतम्। शन्तनोर्दयितं पुत्रं प्रजाहितकरम्प्रभुम्। कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।। ३७.
धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत्। धृतराष्ट्रात्तु गान्धारी पुत्राणां सुषुवे शतम् ।। ३७.
तेषां दुर्योधनो ज्येष्ठः सर्व्वक्षत्रस्य स प्रभुः। माद्री राज्ञी पृथा चैव पाण्डोर्भार्ये बभूवतुः ।। ३७.
देवदत्ताः सुतास्ताभ्यां पाण्डोरर्थे विजज्ञिरे। धर्म्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः ।। ३७.
इन्द्राद्धनञ्जयो जज्ञे शक्रतुल्यपराक्रमः। अश्विभ्यां सह देवश्च नकुलश्चापि माद्रिजौ ।। ३७.