एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः। राजापि च्यवनो विद्वांस्ततः प्रतिरथोऽभवत् ।। ३७.
अथ वै च्यवनाद्धीमान् सुदासः समपद्यत। सौदासः सहदेवश्च सोमकस्तस्य चात्मजः ।। ३७.
अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः। सोमकस्य सुतो जन्तुर्हते तस्मिञ्छतं विभो ।। ३७.
पुषाणामजमीढस्य सोमकत्वे महात्मनः। तेषां यवीयान् पृषतो द्रुपदस्य पितामहः ।। ३७.
धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः। महिषी चाजमीढस्य धूमिनी पुत्रगर्धिनी ।। ३७.
पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम्। हुताग्न्यनिद्रा ह्यभवत् पवित्रमितभोजना ।। ३७.
अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता। तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ।। ३७.
ऋक्षं संजनयामास धूम्रवर्ण सिताग्रजम्। ऋक्षात् संवरणो जज्ञे कुरुः संवरणादभूत् ।। ३७.
यः प्रयागं पदाक्रम्य कुरुक्षेत्रञ्चकार ह। कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ।। ३७.
कृष्यमाणे तदा शक्रस्तत्रास्य वरदो बभौ। पुण्यञ्च रमणीयञ्च पुण्यकृद्भिर्निषेवितम् ।। ३७.
तस्यान्ववायजाः ख्याताः कुरवो नृपसत्तमाः। कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च ।। ३७.
परिक्षितो महाराजः पुत्रकश्चारिमर्दनः। सुधन्वनस्तु दायादः सुहोत्रो मतिमान् स्मृतः ।। ३७.
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः। च्यवनस्य कृतः पुत्र इष्ट्वा यज्ञैर्महातपाः ।। ३७.
विश्रुतं जनयामास पुत्रमिन्द्रसखं नृपः। विद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ।। ३७.
विद्योपरिचराज्जज्ञे गिरिका सप्त सूनवः। महारथो भगधरो विश्रुतो यो बृहद्रथः ।। ३७.
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्। माथैल्यश्च ललित्थश्च मत्स्यकालश्च सप्तमः ।। ३७.
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः। कुशाग्रस्यात्मजश्चैव ऋषभो नाम वीर्यवान् ।। ३७.
ऋषभस्यापि दायादः पुष्पवान्नाम धार्मिकः। विक्रान्तस्तस्य दायादो राजा सत्यहितः स्मृतः ।। ३७.
तस्य पुत्रः सुधन्वा च तस्मादूर्ज्जः प्रतापवान्। ऊर्ज्जस्य नभसः पुत्रस्तस्माज्जज्ञे स वीर्यवान् ।। ३७.
शकले द्वे स वै जातो जरया सन्धितस्तु सः। जरासन्धो महाबाहुर्जरया सन्धितस्तु सः ।। ३७.
सर्वक्षत्रस्य जेताऽसौ जरासन्धो महाबलः। जरासन्धस्य पुत्रस्तु सहदेवः प्रतापवान् ।। ३७.
सहतेवात्मजः श्रीमान् सोमाधिः सुमहातपाः। श्रुतश्रुवस्तु सोमाधेर्मागधः परिकीर्तितः ।। ३७.
परिक्षितस्य दायादो बभूव जनमेजयः। श्रुतसेनस्य दायादो भीमसेनोऽपि नामतः ।। ३७.
जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम्। सुरथस्य तु दायादो वीरो राजा विदूरथः ।। ३७.
विदूरथसुतश्चापि सार्वभौम इति श्रुतिः। सार्वभौमा ज्जयत्सेन आराधिस्तस्य चात्मजः ।। ३७.
आराधितो महासत्त्व अयुतायुस्ततः स्मृतः । अक्रोधनोऽयुतायोऽस्तु तस्माद्देवातिथिः स्मृतः ।। ३७.
देवातिथेस्तु दायाद ऋक्ष एव बभूव ह। भीमसेनस्तथा ऋक्षाद्दिलीपस्तस्य चात्मजः ।। ३७.
दिलीपसूनुः प्रतिपस्तस्य पुत्रास्त्रयः स्मृताः। देवापिः शन्तनुश्चैव बाह्लीकश्चैव ते त्रयः ।। ३७.
बाह्लीकस्य तु विज्ञेयः सप्तबाह्लीश्वरो नृपः। बाह्लीकस्य सुतश्चैव सोमदत्तो महायशाः ।। ३७.
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः । देवापिस्तु प्रवव्राज वनं धर्म्मपरीप्सया ।। ३७.