तस्यान्वये च महति महत्पौरवनन्दनः। महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ।। ३७.
अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः। सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ।। ३७.
सुमतेरपि धर्म्मात्मा राजा सन्नतिमान् प्रभुः। तस्यासीत्सनतिर्नाम कृतस्तस्य सुतोऽभवत् ।। ३७.
शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः। चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ।। ३७.
स्मृतास्ते प्राच्यनामानः कार्त्ताः साम्नान्तु सामगाः । कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ।। ३७.
बभूव येन विक्रम्य पृषतस्य पितामहः। नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ।। ३७.
उग्रायुधस्य दायादः क्षेमो नाम महायशाः। क्षेमात्सु वीरः संजज्ञे सुवीरस्य नृपञ्जयः। नृपञ्जयाद्वीररथो इत्येते पौरवाः स्मृताः ।। ३७.
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः। नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ।। ३७.
पुरुजानुः सुशान्तेस्तु रिक्षस्तु पुरुजानुजः। ततस्तु रिक्षदायादा भेदाश्च तनयास्त्विमे ।। ३७.
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा । यवीयांश्चापि विक्रान्तः कम्पिल्यश्चैव पञ्चमः ।। ३७.
पञ्चानां रक्षणार्थाय पितैतानभ्यभाषत। पञ्चानां विद्धि पञ्चैतान् स्फीता जनपदा युताः ।। ३७.
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः। मुद्गलस्यापि मौद्गल्याः क्षात्रोपेतद्विजातयः ।। ३७.
एते ह्यङ्गिरसः पक्षे संश्रिताः कण्ठमुद्घलाः । मुद्घलस्य सुतो ज्येष्ठो ब्रह्मिष्ठः सुमहायशाः ।। ३७.
इन्द्रसेना यतो गर्भं बध्यश्वं प्रत्यपद्यत। बध्यश्वान्मिथुनं जज्ञे मेनका इति नः श्रुतिः ।। ३७.
दिवोदासश्च राजर्षिरहल्या च यशस्विनी। शारद्वतस्तु दायादमहल्या समसूयत ।। ३७.
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः। पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ।। ३७.
अथ सत्यधृतेः शुक्रं दृष्ट्वाप्सरसमग्रतः। प्रचस्कन्दे शरस्तम्बे मैथुनं समपद्यत ।। ३७.
कृपया तच्च जग्राह शन्तनुर्मृगयां गतः। कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ।। ३७.
एते शारद्वताः प्रोक्ताः ऋतथ्यो गौतमान्वयः। अत ऊर्द्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ।। ३७.
दिवोदासस्य दायादो ब्रह्मिष्ठो मित्रयुर्नृपः। मैत्रेयस्तु ततो जज्ञे स्मृता एतेऽपि संश्रिताः ।। ३७.
एतेऽपि संश्रिताः पक्षं क्षात्रोपेतास्तु भार्गवाः। राजापि च्यवनो विद्वांस्ततः प्रतिरथोऽभवत् ।। ३७.
अथ वै च्यवनाद्धीमान् सुदासः समपद्यत। सौदासः सहदेवश्च सोमकस्तस्य चात्मजः ।। ३७.
अजमीढः पुनर्जातः क्षीणे वंशे स सोमकः। सोमकस्य सुतो जन्तुर्हते तस्मिञ्छतं विभो ।। ३७.
पुषाणामजमीढस्य सोमकत्वे महात्मनः। तेषां यवीयान् पृषतो द्रुपदस्य पितामहः ।। ३७.
धृष्टद्युम्नः सुतस्तस्य धृष्टकेतुश्च तत्सुतः। महिषी चाजमीढस्य धूमिनी पुत्रगर्धिनी ।। ३७.
पुनर्भवे तपस्तेपे शतं वर्षाणि दुश्चरम्। हुताग्न्यनिद्रा ह्यभवत् पवित्रमितभोजना ।। ३७.
अहोरात्रं कुशेष्वेव सुष्वाप सुमहाव्रता। तस्यां वै धूम्रवर्णायामजमीढश्च वीर्यवान् ।। ३७.
ऋक्षं संजनयामास धूम्रवर्ण सिताग्रजम्। ऋक्षात् संवरणो जज्ञे कुरुः संवरणादभूत् ।। ३७.
यः प्रयागं पदाक्रम्य कुरुक्षेत्रञ्चकार ह। कृष्ट्वैनं सुमहातेजा वर्षाणि सुबहून्यथ ।। ३७.
कृष्यमाणे तदा शक्रस्तत्रास्य वरदो बभौ। पुण्यञ्च रमणीयञ्च पुण्यकृद्भिर्निषेवितम् ।। ३७.