हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः। अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।। ३७.
अजमीढस्य पुत्रास्तु शभाः शुभकुलोद्वहाः। तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ।। ३७.
भरद्वाजप्रसादेन श्रृणुध्वं तस्य विस्तरम्। अज मीढस्य केशिन्यां कण्ठः समभवत्किल ।। ३७.
मेधातिथिः सुतस्तस्य तस्मात् कण्ठायना द्विजाः। अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ।। ३७.
बृहद्वसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः। बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ।। ३७.
विश्वजित्तनयस्तस्य सेनजित्तस्य चात्मजः। अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ।। ३७.
रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा। वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ।। ३७.
रुचिराश्वस्य दायादः पृथुषेणो महायशाः। पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ।। ३७.
यस्य चैकशतञ्चासीत् पुत्राणामिति नः श्रुतम्। नीपा इति समाख्याता राजानः सर्व एव ते ।। ३७.
तेषां वंशकरः श्रीमान् राजासीत्कीर्त्तिवर्द्धनः। काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ।। ३७.
समरस्य परः पारः सत्वदश्च इति त्रयः। पुत्राः सर्वगुणोपेताः पारपुत्रो वृषुर्बभौ ।। ३७.
वृषोस्तु सुकृतिर्नाम सुकृतेनेह कर्मणा। जज्ञे सर्वगुणोपेतो विब्राजस्तस्य चात्मजः ।। ३७.
विभ्राजस्य तु दायादस्त्वणुहो नाम पार्थिवः। बभूव शुकजामाता ऋचीभर्त्ता महायशाः ।। ३७.
अणुहस्य तु दायादो ब्रह्मदत्तो महातपाः। योगसूनुः सुतस्तस्य विष्वक्सेनोऽभवनृपः ।। ३७.
विब्राजपुत्रा राजानः कुकृतेनेह कर्म्मणा। विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह ।। ३७.
भल्लाटस्तस्य दायादो येन राजा पुराहतः। भल्लाटस्य तु दायादो राजासीज्जनमेजयः। उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ।। ३७.
उग्रायुधः कस्य सुतः कस्मिन् वंशे च कीर्त्यते। किमर्थञ्चैव नीपास्ते तेन सर्वे प्रणाशिताः ।। ३७.
द्विमीढस्य तु दायादो विद्वान् जज्ञे यवीनरः। धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ।। ३७.
अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् । दृढनेमिसुतश्चापि सुवर्मा नाम पार्थिवः ।। ३७.
आसीत्सुवर्म्मणः पुत्रः सार्वभौमः प्रतापवान्। सार्वभौम इति ख्यातः पृथिव्यामेकराड्बभौ ।। ३७.
तस्यान्वये च महति महत्पौरवनन्दनः। महत्पौरवपुत्रस्तु राजा रुक्मरथः स्मृतः ।। ३७.
अथ रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः। सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ।। ३७.
सुमतेरपि धर्म्मात्मा राजा सन्नतिमान् प्रभुः। तस्यासीत्सनतिर्नाम कृतस्तस्य सुतोऽभवत् ।। ३७.
शिष्यो हिरण्यनाभेस्तु कौथुमस्य महात्मनः। चतुर्विंशतिधा तेन प्रोक्तास्ताः सामसंहिताः ।। ३७.
स्मृतास्ते प्राच्यनामानः कार्त्ताः साम्नान्तु सामगाः । कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ।। ३७.
बभूव येन विक्रम्य पृषतस्य पितामहः। नीलो नाम महाबाहुः पञ्चालाधिपतिर्हतः ।। ३७.
उग्रायुधस्य दायादः क्षेमो नाम महायशाः। क्षेमात्सु वीरः संजज्ञे सुवीरस्य नृपञ्जयः। नृपञ्जयाद्वीररथो इत्येते पौरवाः स्मृताः ।। ३७.
अजमीढस्य नीलिन्यां नीलः समभवन्नृपः। नीलस्य तपसोग्रेण सुशान्तिरभ्यजायत ।। ३७.
पुरुजानुः सुशान्तेस्तु रिक्षस्तु पुरुजानुजः। ततस्तु रिक्षदायादा भेदाश्च तनयास्त्विमे ।। ३७.
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुस्तथा । यवीयांश्चापि विक्रान्तः कम्पिल्यश्चैव पञ्चमः ।। ३७.