अमोघरेताश्च भवान्नावकाशोऽस्ति च द्वयोः। एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह ।। ३७.
यस्मान्मामीदृशे काले सर्वभूतेप्सिते सति। प्रतिषेधसितत्तस्मात् तमो दीर्घं प्रवेक्ष्यसि ।। ३७.
पादाभ्यान्तेन तच्छन्नं मातुर्द्वारं बृहस्पतेः। तद्रेतस्तु तयोर्मध्ये निवार्यः शिशुकोऽभवत् ।। ३७.
सद्यो जातं कुमारन्तं दृष्ट्वाऽथ ममताऽब्रवीत्। गमिष्यामि गृहं स्वं वै भरद्वाजं बृहस्पते ।। ३७.
एवमुक्त्वा गतायां स पुत्रन्त्यजति तत्क्षणात्। भरस्व बाढमित्युक्तो भरद्वाजस्ततोऽभवत् ।। ३७.
मातापितृभ्यां संत्यक्तं दृष्ट्वाथ मरुतः शिशुम्। गृहीत्वैनं भरद्वाजं जग्मुस्ते कृपया ततः ।। ३७.
तस्मिन् काले तु भरतो मरुद्भिः क्रतुभिः क्रमात्। काम्यनैमित्तिकैर्यज्ञैर्यजते पुत्रलिप्सया ।। ३७.
यदा स यजमानो वै पुत्रान्नासादयत् प्रभुः । यज्ञं ततो मरुत्सोमं पुत्रार्थे पुनराहरत् ।। ३७.
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः। भरद्वाजं ततः पुत्रं बार्हस्पत्यं मनीषिणम् ।। ३७.
भरतस्तु भरद्वाजं पुत्रं प्राप्य तदाब्रवीत्। प्रजायां संहृतायां वै कृतार्थोऽहं त्वया विभो ।। ३७.
पूर्वन्तु वितथं तस्य कृतं वै पुत्रजन्म हि। ततः स वितथो नाम भरद्वाजस्तथाऽभवत् ।। ३७.
तस्माद्दिव्यो भरद्वाजो ब्राह्मण्यात् क्षत्रियोऽभवत्। द्विमुख्यायननामा स स्मृतो द्विपितृकस्तु वै ।। ३७.
ततोऽथ वितथे जाते भरतः स दिवं ययौ। वितथस्य तु दायादो भुवमन्युर्बभूव ह ।। ३७.
महाभूतोपमाश्चासंश्चत्वारो भुवमन्युजाः। बृहत्क्षत्रो महावीर्यो नरो गाग्रश्च वीर्यवान् ।। ३७.
नरस्य सांकृतिः पुत्रस्तस्य पुत्रौ महौजसौ। गुरुवीर्यस्त्रिदेवश्च सांकृत्याववरौ स्मृतौ ।। ३७.
दायादाश्चापि गाग्रस्य शिनिबद्धात् बभूव ह। स्मृताश्चैते ततो गाग्र्याः क्षात्रोपेता द्विजातयः ।। ३७.
महावीर्यसुतश्चापि भीमस्तस्मादुभक्षयः। तस्य भार्या विशाला तु सुषुवे वै सुतांस्त्रयः ।। ३७.
त्रय्यारुणिं पुष्करिणं तृतीयं सुषुवे कपिम्। कपेः क्षत्रवरा ह्येते तयोः प्रोक्ता महर्षयः ।। ३७.
गाग्राः सांकृतयो वीर्याः क्षात्रोपेता द्विजातयः। संश्रिताङ्गिरसं पक्षं बृहत्क्षत्रस्य वक्ष्यति ।। ३७.
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः। सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह। तेनेदं निर्मितं पूर्वं नाम्ना वै हास्तिनं पुरम् ।। ३७.
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः। अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।। ३७.
अजमीढस्य पुत्रास्तु शभाः शुभकुलोद्वहाः। तपसोऽन्ते सुमहतो राज्ञो वृद्धस्य धार्मिकाः ।। ३७.
भरद्वाजप्रसादेन श्रृणुध्वं तस्य विस्तरम्। अज मीढस्य केशिन्यां कण्ठः समभवत्किल ।। ३७.
मेधातिथिः सुतस्तस्य तस्मात् कण्ठायना द्विजाः। अजमीढस्य धूमिन्यां जज्ञे बृहद्वसुर्नृपः ।। ३७.
बृहद्वसोर्बृहद्विष्णुः पुत्रस्तस्य महाबलः। बृहत्कर्मा सुतस्तस्य पुत्रस्तस्य बृहद्रथः ।। ३७.
विश्वजित्तनयस्तस्य सेनजित्तस्य चात्मजः। अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः ।। ३७.
रुचिराश्वश्च काव्यश्च रामो दृढधनुस्तथा। वत्सश्चावन्तको राजा यस्य ते परिवत्सराः ।। ३७.
रुचिराश्वस्य दायादः पृथुषेणो महायशाः। पृथुषेणस्य पारस्तु पारान्नीपोऽथ जज्ञिवान् ।। ३७.
यस्य चैकशतञ्चासीत् पुत्राणामिति नः श्रुतम्। नीपा इति समाख्याता राजानः सर्व एव ते ।। ३७.
तेषां वंशकरः श्रीमान् राजासीत्कीर्त्तिवर्द्धनः। काम्पिल्ये समरो नाम स चेष्टसमरोऽभवत् ।। ३७.