अयस्यस्तु उतथ्यश्च वामदेवस्तथोशिजः। भारद्वाजाः शांकृतिका गार्ग्यकाण्वरथीतराः ।। ४.
मुद्गला विष्णुवृद्धाश्च हरिता वायवस्तथा। तथा भाक्षा भरद्वाजा आर्षभाः किम्भयास्तथा ।। ४.
एते ह्यङ्गिरसः पक्षा विज्ञेया दश पञ्च च। ऋष्यन्तरेषु वै बाह्या बहवोऽङ्गिरसः स्मृताः ।। ४.
मारीचं परिवक्ष्यामि वंशमुत्तमपूरुषम्। यस्यान्ववाये सम्भूतं जगत्स्थावरजङ्गमम् ।। ४.
मरीचिरापश्चकमे ताभिध्यायन्प्रजेप्सया। पुत्रः सर्वगुणोपेतः प्रजावान् सुरुचिर्दितिः। संपूज्यते प्रशस्तायां मनसा भाविता प्रभुः ।। ४.
आहूताश्च ततः सर्वा आपः समवसत्प्रभुः। तासु प्रणिहितात्मानमेकः सोऽजनयत्प्रभुः ।। ४.
पुत्रमप्रतिमन्नाम्नारिष्टनेमिः प्रजापतिः। पुत्रं मरीचं सूर्याभं वधौवेशो व्यजीजनत् ।। ४.
प्रध्यायन् हि सतां वाचं पुत्रार्थी सलिले स्थितः। सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ।। ४.
कश्यपः सवितुर्विद्वांस्तेन स ब्रह्मणः समः । मन्वन्तरेषु सर्वेषु ब्राह्मणांशेन जायते ।। ४.
कन्यानिमितमित्युक्ते दक्षेण कुपिताः प्रजाः । अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ।। ४.
हाश्चेकसा हि विज्ञेया ब्रह्मणः कश्य उच्यते। कश्यं मद्यं स्मृतं विप्रैः कश्यपानात्तु कश्यपः ।। ४.
करोति नाम यद्वाचो वाचं क्रूरमुदाहृतम्। दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ।। ४.
तस्माच्च कश्यपेनोक्तो ब्रह्मणा परमेष्ठिना। तस्माद्दक्षः कश्यपाय कन्यास्ताः प्रत्यपद्यत। सर्वाश्च ब्रह्मवादिन्यः सर्वास्ता लोकमातरः ।। ४.
इत्येतमृषिसर्गन्तु पुण्यं यो वेद वारुणम्। आयुष्मान् पुण्यवान् शुद्धः सुखमाप्नोत्यनुत्तमम्। धारणात् श्रवणाच्चैव सर्वपापैः प्रमुच्यते ।। ४.
अथाब्रुवन् पुनः सर्वे मुनयो रोमहर्षणम्। विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह । निसर्गः सम्प्रवृत्तोऽयं मनोर्वैव स्वतस्य ह ।। ४.
प्रजाः सृजेति व्यादिष्टः स्वयं दक्षः स्वयम्भुवा। ससर्ज दक्षो भूतानि गतिमन्ति ध्रुवाणि च । उपस्थितेऽन्तरे ह्यस्मिन् मनोर्वैवस्वतस्य ह ।। ४.
ततः प्रवृत्तो दक्षस्तुप्रजाः स्रष्टुञ्चतुर्विधाः। जरायुजा अण्डजाश्च उद्भिज्जाः स्वेदजास्तथा ।। ४.
दशवर्ष सहस्राणि तप्त्वा घोरं महत्तपः। सम्भावितो योगबलैरणिमाद्यैर्विशेषतः ।। ४.
आत्मानं व्यभजन् श्रीमान् मनुष्योरगराक्षसान्। देवासुरसगन्धर्वान् दिव्यसंहननप्रजान् । ईश्वरानात्मनस्तुल्यान् रूपद्रविणतेजसा ।। ४.
तथैवान्यानि मुदितो गतिमन्ति ध्रुवाणि च। मानसान्येव भूतानि सिसृक्षुर्विविधाः प्रजाः ।। ४.
ऋषीन् देवान् सगन्धर्वान् मनुष्योरगराक्षसान्। यक्षभूतपिशाचांश्च वयःपशुमृगांस्तथा ।। ४.
यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः। अपध्याता भगवता महादेवेन धीमता ।। ४.
मैथुनेन च भावेन सिसृक्षुर्विविधाः प्रजाः। असिक्रीं चावहत् पत्नीं वीरणस्य प्रजापतेः ।। ४.
सुतां सुमहता युक्तां तपसा लोकधारिणीम्। यया धृतमिदं सर्वं जगत् स्थावरजङ्गमम् ।। ४.
अत्राप्युदा हरन्तीमौ श्लोकौ प्राचेतसं प्रति। दक्षस्योद्वहतो भार्यामसिक्नीं वीरिणीं पराम् ।। ४.
कूपानां नियुतं दक्षः सर्पिणां साभिमानिनाम्। नदीगिरिषु सर्ज्जंस्ताः पृष्ठतोऽनुययौ प्रभुः ।। ४.
तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः। प्रथमात्र द्वितीया तु दक्षस्येह प्रजापतेः ।। ४.
तथागच्छद्यथाकालं कूपानां नियुते तु सः। असिक्नीं वैरिणीं यत्र दक्षः प्राचेतसोऽवहत् ।। ४.
अथ पुत्रसहस्रं स वैरिण्याममितौजसा। असिवन्यां जनयामास दक्षः प्राचेतसः प्रभुः ।। ४.
तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषून् प्रजाः. देवर्षिः प्रियसंवादो नारदो ब्रह्मणः सुतः। नाशाय वचनं तेषां शापायैवात्मनोऽब्रवीत् ।। ४.