ब्रह्मक्षत्रान्तरः सत्याविजयो नाम विश्रुतः। विजयस्य धृतिः पुत्र स्तस्य पुत्रो धृतव्रतः ।। ३७.
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः। सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।। ३७.
स कर्णं परिजग्राह तेन कर्णस्तु सूतजः। एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ।। ३७.
एतेऽङ्गवंशजाः सर्वे राजानः कीर्त्तिता मया। विस्तरेणानुपूर्व्या च पूरोस्तु श्रृणुत प्रजाः ।। ३७.
सूत उवाच।। पूरोः पुत्रो महाबाहू राजासीज्जनमेजयः। अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ।। ३७.
अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः। राजाथो जयदो नाम मनस्योरभवत्सुतः ।। ३७.
दायादस्तस्य चाप्यासीद्धुन्धुर्नाम महीपतिः। धुन्धोर्बहु गवी पुत्रः सञ्जातिस्तस्य चात्मजः ।। ३७.
सञ्जातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत। रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ।। ३७.
रजेयुश्च कृते युश्च वक्षेयुः स्थण्डिलेयु च। घृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ।। ३७.
धर्मेयुः सन्नतेयुश्च वनेयुर्द्दशमस्तु सः। रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ।। ३७.
तला खला च सप्तैता या च गोपजला स्मृता। तथा ताम्ररसा चैव रत्नकूटी च तादृशी ।। ३७.
आत्रेयो वंशतस्तासां भर्त्ता नाम्ना प्रभाकरः। अनादृष्टस्तु राजर्षी रिवेयुस्तस्य चात्मजः ।। ३७.
रिवेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा। यस्यां देव्यां स राजर्षी रन्तिं नाम त्वजीजनत् ।। ३७.
रन्तिर्नारः सरस्वत्यां पुत्रानजनयच्छुभान्। त्रसुं तथा प्रतिरथं ध्रुवञ्चैवातिधार्मिकम् ।। ३७.
गौरी कन्या च विख्याता मान्धातुर्जननी शुभा। धुर्यः प्रतिरथस्यापि कण्ठस्तस्याभवत् सुतः ।। ३७.
मेधातिथिः सुरस्तस्य यस्मात् काण्ठायना द्विजाः। इतिनानुयमस्यासीत् कन्या साजनयत्सुतान् ।। ३७.
त्रसुः सुदयितंपुत्रं मलिनं ब्रह्मवादिनम्। उपदातं ततो लेभे चतुरस्त्विति सात्मजान् ।। ३७.
सुष्मन्तमथ दुष्यन्तं प्रवीरमनघन्तथा। चक्रवर्त्ती ततो जज्ञे दौष्यन्तिर्नृपसत्तमः ।। ३७.
शकुन्तलायां भरतो यस्य नाम्ना तु भारतम्। दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।। ३७.
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः। भरस्व पुत्रं दुष्यन्तं सत्यमाह शकुन्तला ।। ३७.
रेतोधाः पुत्रं नयति नरदेव यमक्षयात्। त्वञ्चास्य धाता गर्भस्य मावमंस्थाः शकुन्तलाम् ।। ३७.
भरतस्त्रिसृषु स्त्रीषु नव पुत्रानजीजनत्। नाभ्यनन्दच्च तान् राजा नानुरूपान्ममेत्युत ।। ३७.
ततस्ता मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम्। ततस्तस्य नरेन्द्रस्य विततं पुत्रजन्म तत् ।। ३७.
ततो मरुद्भिरानीय पुत्रस्तु स बृहस्पतेः। सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः ।। ३७.
तत्रैवोदारहन्तीदं भरद्वाजस्य धीमतः। जन्मसङ्क्रमणञ्चैव मरुद्भिर्भरताय वै ।। ३७.
पत्न्यामासन्नगर्भायामशिजः संस्थितः किलः। भ्रातुर्भार्यां स दृष्ट्वाथ बृहस्पतिरुवाच ह। अलंकृत्य तनुं स्वान्तु मैथुनं देहि मे शुभे ।। ३७.
एवमुक्ताऽब्रवीदेन मन्तर्वत्नी ह्यहं विभो। गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा ।। ३७.
अमोघरेतास्त्वञ्चापि धर्मश्चैव विगर्हितः। एवमुक्तोऽब्रवीदेनां स्मयमानो बृहस्पतिः ।। ३७.
विनयो नोपदेष्टव्यस्त्वया मम कथञ्चन। हर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे ।। ३७.
ततो बृहस्पतिं गर्भो हर्षमाणमुवाच ह। सन्निविष्टो ह्यहं पूर्वमिह तात बृहस्पते ।। ३७.