आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत्। गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ।। ३७.
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम्। यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ।। ३७.
ततः कालेन महता तमसा भावितः सवै। विधूय मनुजो दोषान् ब्रह्मण्यं प्राप्तवान् प्रभुः ।। ३७.
ततोऽब्रवीत् पिता चैनं पुत्रवानस्म्यहं प्रभो। सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ।। ३७.
युक्तात्मा हि ततः सोऽथ प्राप्तवान् ब्रह्मणा क्षयम्। ब्रह्मण्यं प्राप्य कक्षीवान् सहस्रमसृजत् सुतान् ।। ३७.
कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः। इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ।। ३७.
समागमः समाख्यातः सन्तानञ्चोभयोस्तयोः। बलिस्तानबिषिच्येह पञ्च पुत्रानकल्मषान् ।। ३७.
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः। अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ।। ३७.
तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः। सापराधसुदेष्णाया अनपानोऽभवनृपः ।। ३७.
अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः। पुत्रो दिविरथस्यासीद्विद्वान् धर्मरथो नृपः ।। ३७.
स वै धर्मरथः श्रीमान् येन विष्णुपदे गिरौ। सोमः शक्रेण सह वै यज्ञे पीतो महात्मना ।। ३७.
सूनुर्धर्मरथस्यापि राजा चित्ररथोऽभवत्। अथ चित्ररथस्यापि राजा दशरथः अभवत्। लोमपाद इति ख्यातो यस्य शान्ता सुताऽभवत् ।। ३७.
(स तु दाशरथिर्वीरश्चतुरङो महामनाः। ऋष्यशृङप्रसादेन जज्ञेऽथ कुलवर्धनः ।।) चतुरङश्च पुत्रस्तु पृथुलाश्च इति श्रुतः। पृथुलाश्च सुतश्चापि चम्पो नाम बभूव ह चम्पावती पुरी चम्पा चतुर्वर्णा च वै वसत्। षष्टिवर्षसहस्त्राणि चम्पावत्यां पुराऽवसत् ।। ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वे स्वे धर्मानुष्ठिते। सर्वे धर्म वै तपसा सर्वे विष्णुपरायणाः जज्ञे वै तण्डिकरतस्य वारणं शक्रवारणम्। आनयामास स महीं मन्धोर्वाहनमुत्तमम् ।। ३७.
*(पाठभेदः) (मंत्रैर्वाहनमुत्तमम्) हर्य्यङ्गस्य तु दायादो राजा भद्ररथः किल। अथ भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ।। ३७.
बृहद्रथः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः। बृहन्मनास्तु राजेन्द्रं जनयामास वै सुतम् ।। ३७.
नाम्ना जयद्रथं नाम तस्मादॄढरथो नृपः। आसीदॄढरथस्यापि विश्वजिज्जनमेजयः ।। ३७.
दायादस्तस्य चाङ्गेभ्यो यस्मात् कर्णोऽभवन्नृपः। कर्णस्य शूरसेनस्तु द्विज स्तस्यात्मजः स्मृतः ।। ३७.
सूतात्मजः कथं कर्णः कथं चाङ्गस्य वंशजः। एतदिच्छामहे श्रोतुमत्यर्थं कुशलो ह्यसि ।। ३७.
बृहद्भानोः सुतो जज्ञे नाम्ना राजा बृहन्मनाः। तस्य पत्नीद्वयं चासीच्चैद्यस्योभे च ते सुते ।। ३७.
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते। जयद्रथस्तु राजेन्द्रो यशोदेव्यां व्यजायत ।। ३७.
ब्रह्मक्षत्रान्तरः सत्याविजयो नाम विश्रुतः। विजयस्य धृतिः पुत्र स्तस्य पुत्रो धृतव्रतः ।। ३७.
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः। सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।। ३७.
स कर्णं परिजग्राह तेन कर्णस्तु सूतजः। एतद्वः कथितं सर्वं कर्णे यद्वै प्रचोदितम् ।। ३७.
एतेऽङ्गवंशजाः सर्वे राजानः कीर्त्तिता मया। विस्तरेणानुपूर्व्या च पूरोस्तु श्रृणुत प्रजाः ।। ३७.
सूत उवाच।। पूरोः पुत्रो महाबाहू राजासीज्जनमेजयः। अविद्धस्तु सुतस्तस्य यः प्राचीमजयद्दिशम् ।। ३७.
अविद्धतः प्रवीरस्तु मनस्युरभवत्सुतः। राजाथो जयदो नाम मनस्योरभवत्सुतः ।। ३७.
दायादस्तस्य चाप्यासीद्धुन्धुर्नाम महीपतिः। धुन्धोर्बहु गवी पुत्रः सञ्जातिस्तस्य चात्मजः ।। ३७.
सञ्जातेरथ रौद्राश्वस्तस्य पुत्रान्निबोधत। रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ।। ३७.
रजेयुश्च कृते युश्च वक्षेयुः स्थण्डिलेयु च। घृतेयुश्च जलेयुश्च स्थलेयुश्चैव सप्तमः ।। ३७.
धर्मेयुः सन्नतेयुश्च वनेयुर्द्दशमस्तु सः। रुद्रा शूद्रा च मद्रा च शुभा जामलजा तथा ।। ३७.