सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि। ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् ।। ३७.
नेत्युवाच ततस्तन्तु ममैताविति चाब्रवीत्। उत्पन्नौ शूद्रयोनौ तु भवच्छद्मा सुरोत्तमौ ।। ३७.
अनधं बृद्धं च मां मत्वा सुदेष्णा महिषी तव। प्राहिणोदवमानाय शूद्रां धात्रेयकीं मम ।। ३७.
ततः प्रसादयामास पुनस्तमृषिसत्तमम्। बलिर्भार्यां सुदेष्णां च भर्त्सयामास वै प्रभुः ।। ३७.
पुनश्चैनामलंकृत्य ऋषये प्रत्यपादयत्। तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे ।। ३७.
दध्ना लवणमिश्रेण स्वब्य(व्य)क्तं नग्नकं तथा। लिहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् ।। ३७.
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान्। तस्य सा तद्वचो देवी सर्वं कृतवती तथा ।। ३७.
अपानञ्च समासाद्य जुगुप्सन्ती न्यवर्जयत्। तामुवाच ततः सर्षिर्यत्ते परिहृतं शुभे। विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ।। ३७.
ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह। नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ।। ३७.
तवापराधो देव्येष नान्यथा भवितानु वै । देवी दानीञ्च ते पुत्रमहं दास्यामि सुव्रते ।। ३७.
तस्यापानं विना चैव योग्याभावो भविष्यति। तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वेदमब्रववीत् ।। ३७.
प्राशितं दधि यत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते । तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ।। ३७.
भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः। तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ।। ३७.
ततोङ्गस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत। वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रो ब्रह्मस्तथैव च ।। ३७.
वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा। इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ।। ३७.
प्रजास्त्वपहतास्तस्य ब्रह्मणा कारणं प्रति। अपत्या मात्यदारेषु स्वेषु मा भून्महात्मनः ।। ३७.
ततो मनुष्ययोन्यां वै जनयामास स प्रजाः। सुरभिर्दीर्घतमसमथ प्रीतो वचोऽब्रवीत् ।। ३७.
विचार्य यस्माद्गोधर्म्मं त्वमेवं कृतवानसि । तेन न्यायेन मुमुचे ह्यहं प्रीतोस्मि तेन ते ।। ३७.
तस्मात्तव तमो दीर्घं निस्तुदाम्यद्य पश्य वै। बार्हस्पत्यञ्च यत्तेऽन्यत्पापं सन्तिष्ठते तनौ ।। ३७.
जरामृत्युभयञ्चैव आघ्राय प्रणुदामि ते। ह्याघ्रातमात्रः सोऽपश्यत सद्यस्तमसि नाशिते ।। ३७.
आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत्। गवा दीर्घतमाः सोऽथ गौतमः समपद्यत ।। ३७.
कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिप्रजाम्। यथोद्दिष्टं हि पित्रर्थे चचार विपुलं तपः ।। ३७.
ततः कालेन महता तमसा भावितः सवै। विधूय मनुजो दोषान् ब्रह्मण्यं प्राप्तवान् प्रभुः ।। ३७.
ततोऽब्रवीत् पिता चैनं पुत्रवानस्म्यहं प्रभो। सत्पुत्रेण त्वया तात कृतार्थोऽस्मि यशस्विना ।। ३७.
युक्तात्मा हि ततः सोऽथ प्राप्तवान् ब्रह्मणा क्षयम्। ब्रह्मण्यं प्राप्य कक्षीवान् सहस्रमसृजत् सुतान् ।। ३७.
कृष्णाङ्गा गौतमास्ते वै स्मृताः कक्षीवतः सुताः। इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ।। ३७.
समागमः समाख्यातः सन्तानञ्चोभयोस्तयोः। बलिस्तानबिषिच्येह पञ्च पुत्रानकल्मषान् ।। ३७.
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः। अदृश्यः सर्वभूतानां कालाकाङ्क्षी चरत्युत ।। ३७.
तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः। सापराधसुदेष्णाया अनपानोऽभवनृपः ।। ३७.
अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः। पुत्रो दिविरथस्यासीद्विद्वान् धर्मरथो नृपः ।। ३७.