सम्बभूवैव धर्मात्मा तया सार्द्धं बृहस्पतिः। उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ।। ३७.
नो स्नातको न्यसेद्ध्यस्मिन् द्वयोर्नेहास्ति सम्भवः। अमोघरेतास्त्वञ्चापि पूर्वञ्चाहमिहागतः ।। ३७.
शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः। आशिजन्तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ।। ३७.
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति। मामेवमुक्तवान् मोहात्तमो दीर्घं प्रवेक्ष्यसि ।। ३७.
ततो दीर्घतमा नाम शापादृषिरजायत। अथाशिजो बृहत्कीर्त्तिर्बृहस्पतिरिवौजसा ।। ३७.
ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे। गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान् प्रभो ।। ३७.
तस्य भ्राता पितृव्यस्तु चकार भवनं तदा। तस्मिन् हि तत्र वसति यदृच्छाभ्यागतो वृषः ।। ३७.
दर्शार्थमाहृतान् दर्भांश्चचार सुरभीवृतः। जग्राह तं दीर्घतमा विस्फुरन्तञ्च श्रृङ्गयोः ।। ३७.
स तेन निगृहीतस्तु न चचाल पदात्पदम्। ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ।। ३७.
न मयासादितस्तात बलवंस्त्वद्विधः क्वचित्। त्र्यम्बकं वहता देवं यतो जातोऽस्मि भूतले ।। ३७.
मुञ्च मां बलिनां श्रष्ठ प्रीतस्तेऽहं वरं वृणु। एवमुक्तोऽब्रवीदेनं जीवस्त्वं मे क्व यास्यसि ।। ३७.
तेन त्वाहं न मोक्ष्यामि परस्वाहं चतुष्पदम्। ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ।। ३७.
नास्माकं विद्यते तात पातकं स्तेयमेव वा। भक्ष्याभक्ष्यं न जानीमः पेयापेयञ्च सर्वशः ।। ३७.
कार्याकार्यं न वै विझो गम्यागम्यं तथैव च। न पाप्मानो वयं विप्र धर्मो ह्येषां गवां स्मृतः ।। ३७.
गवां नाम स वै श्रुत्वा संभ्रान्तस्त्वनुमुच्य तम्। भक्त्या चानुश्रविकया गोषु तं वै प्रसाद यत् ।। ३७.
प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु तम्। मनसैव तदादत्ते तन्निष्ठस्तत्परायणः ।। ३७.
ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत। विचेष्टमानां रुदतीं दैवात् स मूढचेतनः ।। ३७.
अवलेपन्तु तं मत्वा शरद्वांस्तस्य नाक्षमत्। गोधर्मंवै बलं कृत्वा स्नुषां स सममन्यत ।। ३७.
विपर्ययन्तु तं दृष्ट्वा शरद्वान् प्रत्यचिन्तयत्। भविष्यमर्थं ज्ञात्वा च महात्मा च न मृत्युताम् ।। ३७.
प्रोवाच दीर्घतमसं क्रोधात् संरक्त लोचनः। गम्यागम्यं न जीनीषे गोधर्मात् प्रार्थयत् स्नुषाम् ।। ३७.
दुर्वृत्तस्त्वं त्यजाम्येव गच्छ त्वं स्वेन कर्मणा। यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः। तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतिः ।। ३७.
सूत उवाच।। कर्मण्यस्मिस्ततः क्रूरे तस्य बुद्धिरजायत। निर्भत्स्य चैव बहुशो बाहुभ्यां परिगृह्य च। कोष्ठे समुद्रे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् ।। ३७.
उह्यमानः समुद्रस्तु सप्ताहं स्रोतसा तदा। तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित्। अपश्यन्मज्जमानन्तु स्रोतसाभ्याशमागतम् ।। ३७.
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा। अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् ।। ३७.
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम्। स च तस्माद्वरं वव्रे पुत्रार्थं दानवर्षभः ।। ३७.
सन्तानार्थं महाभाग भार्यया मम मानद। पुत्रान् धर्मार्थसंयुक्तानुत्पादयितुमर्हसि ।। ३७.
एवमुक्तस्तु तेनर्षिस्तथास्त्वित्युक्तवान् हि तम् । सुदेष्णां नाम बार्यां वै राजास्मै प्राहिणोत्तदा ।। ३७.
अन्धं वृद्धञ्च तं दृष्ट्वा न सा देवी जगाम ह । स्वाञ्च धात्रेयकीं तस्मै भूषयित्वा व्यसर्जयत् ।। ३७.
कक्षीवचक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी। जनयामास धर्मात्मा पुत्रावेतौ महोजसौ ।। ३७.
कक्षिवचक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा। प्राधीतौ विधिवत्सम्यगीश्वरौ ब्रह्मवादिनौ ।। ३७.