नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी। सुव्रतस्य तथा वृष्टा शिविपुत्रान्निबोधत ।। ३७.
शिवेस्तु शिवयः पुत्राश्चत्वारो लोकसम्मताः। वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा ।। ३७.
तेषाञ्जनपदाः स्फीताः केकया माद्रकास्तथा। वृषदर्भाः सूचिदर्भास्तितिक्षोः श्रृणुत प्रजाः ।। ३७.
तैतिक्षुरभवद्राजा पूर्वस्यान्दिशि विश्रुतः। उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् ।। ३७.
हेमस्य सुतपा जज्ञे सुतः सुतयशा बली । जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया ।। ३७.
महायोगी स तु बलिर्बद्धो यः स महामनाः। पुत्रानुत्पादयामास चातुर्वर्ण्यकरान् भुवि ।। ३७.
अङ्गं स जनयामास वङ्गं सुह्लं तथैव च। पुण्ड्रं कलिङ्गञ्च तथा बालेयं क्षत्रमुच्यते ।। ३७.
बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः। बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमते ।। ३७.
महायोगित्वमायुश्च कल्पायुःपरिमाणकम्। संग्रामे चाप्यजेयत्वं धर्मे चैव प्रभावना ।। ३७.
त्रैलोक्यदर्शनञ्चैव प्राधान्यं प्रसवे तथा। बले चाप्रति मत्वं वै धर्मतत्त्वार्थदर्शनम् ।। ३७.
चतुरो नियतान् वर्णान् त्वं वै स्थापयितेति च। इत्युक्तो विभुना राजा बलिः शान्तिम्परां ययौ ।। ३७.
कालेन महता विद्वान् स्वं वै स्थानमुपागतः। तेषां जनपदाः स्फीता वङ्गाङ्गसुह्लकास्तथा ।। ३७.
पुण्ड्राः कलिङ्गाश्च तथा तेषां वंशं निबेधत। तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसम्भवाः। सम्भूता दीर्घतमसः सुदेण्णायां महौजसः ।। ३७.
ऋषय ऊचुः। कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो। ऋषिणा दीर्घतमसा एतन्नो ब्रूहि पृच्छताम् ।। ३७.
सूत उवाच।। अशिजो नाम विख्यात आसीद्धीमानृषिः पुरा। भार्या वै ममता नाम बभूवास्य महात्मनः ।। ३७.
अशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम्। बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ।। ३७.
उवाच ममता तन्तु बृहस्पतिमनिच्छती। अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्याष्टमिता इति ।। ३७.
अयं हि मे महागर्भो रोचतेऽति बृहस्पते। अशिजं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन् ।। ३७.
अमोघरेतास्त्वञ्चापि न मां भजितुमर्हसि। अस्मिन्नेव गते काले यथा वा मन्यसे प्रभो ।। ३७.
एवमुक्तस्तया सम्यग् बृहत्तेजा बृहस्पतिः। कामात्मानं महात्मा च नात्मानं सोऽभ्यधारयत् ।। ३७.
सम्बभूवैव धर्मात्मा तया सार्द्धं बृहस्पतिः। उत्सृजन्तं तदा रेतो गर्भस्थः सोऽभ्यभाषत ।। ३७.
नो स्नातको न्यसेद्ध्यस्मिन् द्वयोर्नेहास्ति सम्भवः। अमोघरेतास्त्वञ्चापि पूर्वञ्चाहमिहागतः ।। ३७.
शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः। आशिजन्तं सुतं भ्रातुर्गर्भस्थं भगवानृषिः ।। ३७.
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति। मामेवमुक्तवान् मोहात्तमो दीर्घं प्रवेक्ष्यसि ।। ३७.
ततो दीर्घतमा नाम शापादृषिरजायत। अथाशिजो बृहत्कीर्त्तिर्बृहस्पतिरिवौजसा ।। ३७.
ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे। गोधर्मं सौरभेयात्तु वृषभाच्छ्रुतवान् प्रभो ।। ३७.
तस्य भ्राता पितृव्यस्तु चकार भवनं तदा। तस्मिन् हि तत्र वसति यदृच्छाभ्यागतो वृषः ।। ३७.
दर्शार्थमाहृतान् दर्भांश्चचार सुरभीवृतः। जग्राह तं दीर्घतमा विस्फुरन्तञ्च श्रृङ्गयोः ।। ३७.
स तेन निगृहीतस्तु न चचाल पदात्पदम्। ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ।। ३७.
न मयासादितस्तात बलवंस्त्वद्विधः क्वचित्। त्र्यम्बकं वहता देवं यतो जातोऽस्मि भूतले ।। ३७.