गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः। ततो व्यतीते कल्कौ तु सामान्यैः सह सैनिकैः ।। ३६.
नृपेष्वथ विनष्टेषु तदा त्वप्रग्रहाः प्रजाः। रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे ।। ३६.
परस्परहृताश्वासा निराक्रन्दाः सुदुःखिताः। पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ।। ३६.
प्रनष्टश्रुतिधर्माश्च नष्टधर्माश्रमास्तथा। ह्रस्वा अल्पायुषश्चैव वनौकस इमे स्मृताः ।। ३६.
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः। चीर पत्राजिनधराः सङ्करं घोरमास्थिताः ।। ३६.
अल्पायुषो नष्टवार्त्ता बह्वाबाधाः सुदुःखिताः। एवं कष्टमनुप्राप्ताः कलिसन्ध्यंशके तदा ।। ३६.
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु । क्षीणे कलियुगे तस्मिन् प्रवृत्ते च कृते पुनः ।। ३६.
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यता। इत्येतत् कीर्तितं सर्वं देवासुरविचेष्टितम् ।। ३६.
यदुवंशप्रसङ्गेन महद्वो वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ।। ३६.
तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः। गोभानोस्तु सुतो वीरस्त्रिसानुरपराजितः ।। ३७.
करन्धमस्त्रिसानोस्तु मरुत्तस्य न चात्मजः। अन्यस्त्ववीक्षितो राजा मरुत्तः कथितः पुरा ।। ३७.
अनवत्यो मरुत्तस्तु स राजासीदिति श्रुतम्। दुष्कृतं पौरवं चापि सर्वे पुत्रमकल्पयन् ।। ३७.
एवं ययादिशापेन जरायाः संक्रमेण तु । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ।। ३७.
दुष्कृतस्य तु दायादः शरूथो नाम पार्थिवः। शरूथात्तु जनापीडश्चत्वारस्तस्य चात्मजाः ।। ३७.
पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च। तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ।। ३७.
द्रुह्योस्तु तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ। अरुद्धः सेतुपुत्रस्तु बाभ्रवो रिपुरुच्यते ।। ३७.
यौवनाश्वेन समिति कृच्छ्रेण निहतो बली। युद्धं सुमहदासीत्तु मासान् परि चतुर्दश ।। ३७.
अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः। ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ।। ३७.
गान्धारदेशजाश्चापि तुरगा वाजिनां वराः। गान्धारपुत्रो धर्म्मस्तु घृतस्तस्य सुतोऽभवत् ।। ३७.
घृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः । प्रचेतसः पुत्रशतं राजानः सर्व एव ते ।। ३७.
म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमाश्रिताः। अनोः पुत्रा महात्मानस्त्रयः परमधार्म्मिकाः ।। ३७.
सभानरश्च पक्षश्च परपक्षस्तथैव च। सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः ।। ३७.
कालानलस्य धर्म्मात्मा सृञ्जयो नाम धार्मिकः । सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ।। ३७.
जनमेजयो महा सत्वः पुरञ्जयसुतोऽभवत्। जनमेजयस्य राजर्षेर्महाशालोऽभवभृपः ।। ३७.
आसीदिन्द्रसमो राजा प्रतिष्ठितयशा दिवि। महामनाः सुतस्तस्य महा शालस्य धार्मिकः ।। ३७.
सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः। महामनास्तु पुत्रौ द्वौ जनयामास विश्रुतौ ।। ३७.
उशीनरञ्च धर्मज्ञं तितिक्षुञ्चैव धार्मिकम्। उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ।। ३७.
मृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती। उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः। तपसा ते सुमहता जातवृद्धाश्च धार्मिकाः ।। ३७.
मृगायास्तु मृगः पुत्रो नवाया नव एव तु। कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः ।। ३७.
दृषद्वतीसुतश्चापि शिविरौशीनरो द्विजाः। शिवेः शिवपुरं ख्यातं यौधेयन्तु मृगस्य तु ।। ३७.