एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत ।। ३६.
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह। नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ।। ३६.
पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह। मान्धातुश्चक्रवर्त्तित्वे तस्थौ तथ्यपुरःसरः ।। ३६.
एको नविंशे त्रेतायां सर्व्वक्षत्रान्तकोऽभवत्। जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ।। ३६.
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा। सप्तमो राव णस्यार्थे जज्ञे दशरथात्मजः ।। ३६.
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातूकर्णपुरःसरः ।। ३६.
तथैव नवमो विष्णुरदित्याः कश्यपात्मजः। देवक्यां वसुदेवात्तु ब्रह्नगार्ग्यपुरःसरः ।। ३६.
अप्रमेयो नियोज्यश्च यत्र कामचरो वशी। क्रीजते भगवाँ ल्लोके बालः क्रीजनकैरिव ।। ३६.
न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः। परं परममेतस्माद्विश्वरूपान्न विद्यते ।। ३६.
अष्टाविंश तिमे तद्वद्द्वापरस्यांशसङ्क्षये। नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।। ३६.
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्। मोहयन् सर्वभूतानि योगात्मा योगमायया ।। ३६.
प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्। विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ।। ३६.
यत्र कंसञ्च शाल्वञ्च द्विविदञ्च महासुरम्। अरिष्टं वृषभञ्चैव पूतनां केशिनं हयम् ।। ३६.
नागं कुवलयापीडं मल्लराजगृहाधिपम्। दैत्यान् मानुषदेहस्थान् सूदयामास वीर्यवान् ।। ३६.
छिन्नं बाहुसहस्रञ्च बाणस्याद्भुतकर्मणः । नरकश्च हतः सङ्खये यवनश्च महाबलः ।। ३६.
हृतानि च महीपानां सर्वरत्नानि तेजसा। दुराचारा श्च निहताः पार्थिवा ये रसातले ।। ३६.
एते लोकहितार्थाय प्रादुर्भावा महात्मनः। अस्मिन्नेव युगे क्षीणे सन्ध्या श्लिष्टे भविष्यति ।। ३६.
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्। दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः ।। ३६.
अनुकर्षन् सर्वसेनां हस्त्यश्वरथसङ्कुलाम्। प्रगृहीतायुधौर्विप्रैर्वृतः शतसहस्रशः ।। ३६.
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः व्कचित्। ईदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ।। ३६.
तथैव दाक्षिणात्यांश्च द्रविजान् सिंहलैः सह। गान्धारान् पारदांश्चैव पह्लवान् यवनाञ्छकान् ।। ३६.
तुषारान् बर्बरांश्चैव पुलिन्दान् दरदान् खसान् । लम्पाकानन्धकान् रुद्रान् किरातांश्चैव स प्रभुः ।। ३६.
प्रवृत्तचक्रोबलवान् म्लेच्छानामन्तकृद्बली। अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ।। ३६.
मानवः स तु संजज्ञे देवस्यांशेन धीमतः । पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ।। ३६.
गात्रेण वै चन्द्रसमः पूर्णे कलियुगेऽभवत्। इत्येतास्तस्य देवस्य दश सम्भूतयः स्मृताः ।। ३६.
तं तं कालञ्च कार्यञ्च तत्तदुद्दिश्य कारणम्। अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ।। ३६.
पञ्चविंशोत्थिते कल्पे पञ्चविंशति वै समाः। विनिघ्नन् सर्व्वभूतानि मानुषानेव सर्व्वशः ।। ३६.
कृत्वा बीजावशेषान्तु महीं क्रूरेण कर्म्मणा। संशातयित्वा वृषलान् प्रायशस्तानधार्म्मिकान् ।। ३६.
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः। कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ।। ३६.
अकस्मात् कुपितान्योन्यं भविष्यन्ति च मोहिताः । क्षपयित्वा तु तान् सर्वान् बाविनार्थेन चोदितान् ।। ३६.