ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत्। वामनन्तं च विज्ञाय ततोऽनुमुदितः स्वयम् ।। ३६.
स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः। त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ।। ३६.
अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा। प्रकाशयन् दिशः सर्व्वाः प्रदिशश्च महायशाः ।। ३६.
शुशुभे स महाबाहुः सर्व्वलोकान् प्रकाशयन्। आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः। सपुत्रपौत्रानसुरान् पातालतलमानयत् ।। ३६.
नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना। क्रूरा हता विनिर्द्धूता दिशः संप्रतिपेदिरे ।। ३६.
महाभूतानि भूतात्मा सविशेषाणि माधवः। कालञ्च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ।। ३६.
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति । न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ।। ३६.
तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः। दृष्ट्वा सम्मुमुहुः सर्वे विष्णुतेजोविमोहिताः ।। ३६.
बलिः सिलो महापाशैः सबन्धुः ससुहृद्गणः। विरोचन कुलं सर्वं पाताले सन्निवेशितम् ।। ३६.
ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने। मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ।। ३६.
एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत ।। ३६.
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह। नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ।। ३६.
पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह। मान्धातुश्चक्रवर्त्तित्वे तस्थौ तथ्यपुरःसरः ।। ३६.
एको नविंशे त्रेतायां सर्व्वक्षत्रान्तकोऽभवत्। जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ।। ३६.
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा। सप्तमो राव णस्यार्थे जज्ञे दशरथात्मजः ।। ३६.
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातूकर्णपुरःसरः ।। ३६.
तथैव नवमो विष्णुरदित्याः कश्यपात्मजः। देवक्यां वसुदेवात्तु ब्रह्नगार्ग्यपुरःसरः ।। ३६.
अप्रमेयो नियोज्यश्च यत्र कामचरो वशी। क्रीजते भगवाँ ल्लोके बालः क्रीजनकैरिव ।। ३६.
न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः। परं परममेतस्माद्विश्वरूपान्न विद्यते ।। ३६.
अष्टाविंश तिमे तद्वद्द्वापरस्यांशसङ्क्षये। नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।। ३६.
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्। मोहयन् सर्वभूतानि योगात्मा योगमायया ।। ३६.
प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्। विहारार्थं मनुष्येषु सान्दीपनिपुरःसरम् ।। ३६.
यत्र कंसञ्च शाल्वञ्च द्विविदञ्च महासुरम्। अरिष्टं वृषभञ्चैव पूतनां केशिनं हयम् ।। ३६.
नागं कुवलयापीडं मल्लराजगृहाधिपम्। दैत्यान् मानुषदेहस्थान् सूदयामास वीर्यवान् ।। ३६.
छिन्नं बाहुसहस्रञ्च बाणस्याद्भुतकर्मणः । नरकश्च हतः सङ्खये यवनश्च महाबलः ।। ३६.
हृतानि च महीपानां सर्वरत्नानि तेजसा। दुराचारा श्च निहताः पार्थिवा ये रसातले ।। ३६.
एते लोकहितार्थाय प्रादुर्भावा महात्मनः। अस्मिन्नेव युगे क्षीणे सन्ध्या श्लिष्टे भविष्यति ।। ३६.
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्। दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः ।। ३६.
अनुकर्षन् सर्वसेनां हस्त्यश्वरथसङ्कुलाम्। प्रगृहीतायुधौर्विप्रैर्वृतः शतसहस्रशः ।। ३६.
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः व्कचित्। ईदीच्यान्मध्यदेशांश्च तथा विन्ध्यापरान्तिकान् ।। ३६.