देवासुरान् पराभाव्य षण्डामार्कावुपागमन्। काव्यशापाभिभूताश्च ह्यनाधाराश्च ते पुनः ।। ३६.
वध्यमानास्तदा देवैर्विविशुस्ते रसातलम्। एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः। ततः प्रभृति शापेन भृगुनैमित्तिकेन च ।। ३६.
जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः। कर्त्तुं धर्म्मव्यवस्थानमधर्म्मस्य च नाशनम् ।। ३६.
प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः। मनुष्यवध्यांस्तान् सर्व्वान् ब्रह्मा व्याहारयत् प्रभुः ।। ३६.
धर्म्मान्नारायणस्तस्मान् सम्भूतश्चाक्षुषेऽन्तरे। यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ।। ३६.
प्रादुर्भावे तदान्यस्य ब्रह्मैवासीत् पुरोहितः। चतुर्थ्यान्तु युगाख्यायामापन्नेष्वसुरेष्वथ ।। ३६.
सम्भूतः स समुद्रान्तर्हिरण्यकशिपोर्वधे। द्वितीयो नरसिंङोऽभूद्रुद्रः सुरपुरस्सरः ।। ३६.
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे। दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ।। ३६.
संक्षिप्यात्मानमङ्गेषु बृहस्पतिपुरस्सरम्। यजमानन्तु दैत्येन्द्रमदित्याः कुलनन्दनः। द्विजो भूत्वा शुभे काले बलिं वैरोचनम्पुरा ।। ३६.
त्रैलोक्यस्य भवान् राजा त्वयि सर्व्वं प्रतिष्ठितम्। दातुमर्हसि मे राजन् विक्रमांस्त्रीनिति प्रभुः ।। ३६.
ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत्। वामनन्तं च विज्ञाय ततोऽनुमुदितः स्वयम् ।। ३६.
स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः। त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ।। ३६.
अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा। प्रकाशयन् दिशः सर्व्वाः प्रदिशश्च महायशाः ।। ३६.
शुशुभे स महाबाहुः सर्व्वलोकान् प्रकाशयन्। आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्दनः। सपुत्रपौत्रानसुरान् पातालतलमानयत् ।। ३६.
नमुचिः शम्बरश्चैव प्रह्लादश्चैव विष्णुना। क्रूरा हता विनिर्द्धूता दिशः संप्रतिपेदिरे ।। ३६.
महाभूतानि भूतात्मा सविशेषाणि माधवः। कालञ्च सकलं विप्रांस्तत्राद्भुतमदर्शयत् ।। ३६.
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति । न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ।। ३६.
तद्वै रूपमुपेन्द्रस्य देवदानवमानवाः। दृष्ट्वा सम्मुमुहुः सर्वे विष्णुतेजोविमोहिताः ।। ३६.
बलिः सिलो महापाशैः सबन्धुः ससुहृद्गणः। विरोचन कुलं सर्वं पाताले सन्निवेशितम् ।। ३६.
ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने। मानुषेषु महाबाहुः प्रादुरासीज्जनार्दनः ।। ३६.
एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयः शुभाः। मानुष्याः सप्त यास्तस्य शापजांस्तान्निबोधत ।। ३६.
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह। नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुरःसरः ।। ३६.
पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह। मान्धातुश्चक्रवर्त्तित्वे तस्थौ तथ्यपुरःसरः ।। ३६.
एको नविंशे त्रेतायां सर्व्वक्षत्रान्तकोऽभवत्। जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ।। ३६.
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा। सप्तमो राव णस्यार्थे जज्ञे दशरथात्मजः ।। ३६.
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्ततो जज्ञे जातूकर्णपुरःसरः ।। ३६.
तथैव नवमो विष्णुरदित्याः कश्यपात्मजः। देवक्यां वसुदेवात्तु ब्रह्नगार्ग्यपुरःसरः ।। ३६.
अप्रमेयो नियोज्यश्च यत्र कामचरो वशी। क्रीजते भगवाँ ल्लोके बालः क्रीजनकैरिव ।। ३६.
न प्रमातुं महाबाहुः शक्योऽसौ मधुसूदनः। परं परममेतस्माद्विश्वरूपान्न विद्यते ।। ३६.
अष्टाविंश तिमे तद्वद्द्वापरस्यांशसङ्क्षये। नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।। ३६.