सूत उवाच।। ज्ञात्वा काव्यो यथातत्त्वं कारुण्येनानुकम्पया । एवमुक्तोऽनुनीतः स स्तुतः कोपं न्ययच्छत ।। ३६.
उवाचेदन्न भेतव्यं न गन्तन्यं रसातलम्। अवश्यम्भावी ह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ।। ३६.
न शक्यमन्यथा कर्तुं दृष्टं हि बलवत्तरम् । संज्ञा प्रनष्टा या वोऽद्य कामं तां प्रतिलप्स्यथ ।। ३६.
प्राप्तः पर्य्यायकालो व इति ब्रह्माऽभ्यभाषत। मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ।। ३६.
युगाख्यो दश संपूर्णो देवानाक्रम्य मूर्द्धनि। तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ।। ३६.
सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति। लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ।। ३६.
एवं किलमहं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम्। तथाहृतेषु लोकेषु तपोऽस्य न किलाभवत् ।। ३६.
यस्मात् प्रवृत्तयश्चास्य न कामानभिसन्धिताः। तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ।। ३६.
देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत्। तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ।। ३६.
प्रीतेन चामरत्वं वै दत्तं तुब्यं स्वयम्भुवा। तस्मान्निरुत्सु कस्त्वं वै पर्य्यायं सह माकुलः ।। ३६.
न च शक्यं मया तुभ्यं पुरस्ताद्वै विसर्पितुम् । ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ।। ३६.
इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः । दैवतैः सह संरब्धान् सर्व्वान् वो धारयिष्यतः ।। ३६.
एवमुक्तस्तु दैतेयाः काव्येनाक्लिष्टकर्म्मणा। ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ।। ३६.
अवश्यम्भावमर्थत्वं श्रुत्वा शुक्राच्च दानवाः। सकृदाशंसमानास्ते जयं काव्येन भाषितम् ।। ३६.
दंशिताः सायुधाः सर्वे ततो देवान् समाह्वयन्। अथ देवासुरान् दृष्ट्वा संग्रामे समुपस्थितान् ।। ३६.
ततः संवृत्तसन्नाहा देवास्तान् समयोधयन्। दैवासुरे ततस्तस्मिन् वर्त्तमाने शतं समाः। अजयन्नसुरा देवान् भग्ना देवा अमन्त्रयन् ।। ३६.
षण्डामार्कप्रभावं न जानीमस्त्व सुरैर्वयम्। तस्माद्यज्ञं समुद्दिश्य कार्य्यं चात्महितञ्च यत् ।। ३६.
तज्ज्ञानापहृतावेतौ कृत्वा जेष्यामहेऽसुरान् । अथोपामन्त्रयन् देवाः षण्डामार्कौ तु तावुभौ ।। ३६.
यज्ञे समाह्वयिष्यामस्त्यजतमसुरान् द्विजौ । ग्रहं तं वा ग्रहीष्यामो ह्यनुजित्य तु दानवान् ।। ३६.
एवं तत्यजतुस्तौ तु षण्डामार्कौ तदासुरान् । ततो देवा जयं प्राप्ता दानवाश्च पराभवम् ।। ३६.
देवासुरान् पराभाव्य षण्डामार्कावुपागमन्। काव्यशापाभिभूताश्च ह्यनाधाराश्च ते पुनः ।। ३६.
वध्यमानास्तदा देवैर्विविशुस्ते रसातलम्। एवं निरुद्यमास्ते वै कृताः शक्रेण दानवाः। ततः प्रभृति शापेन भृगुनैमित्तिकेन च ।। ३६.
जज्ञे पुनः पुनर्विष्णुर्यज्ञे च शिथिले प्रभुः। कर्त्तुं धर्म्मव्यवस्थानमधर्म्मस्य च नाशनम् ।। ३६.
प्रह्लादस्य निदेशे तु येऽसुरा न व्यवस्थिताः। मनुष्यवध्यांस्तान् सर्व्वान् ब्रह्मा व्याहारयत् प्रभुः ।। ३६.
धर्म्मान्नारायणस्तस्मान् सम्भूतश्चाक्षुषेऽन्तरे। यज्ञं प्रवर्तयामास चैत्ये वैवस्वतेऽन्तरे ।। ३६.
प्रादुर्भावे तदान्यस्य ब्रह्मैवासीत् पुरोहितः। चतुर्थ्यान्तु युगाख्यायामापन्नेष्वसुरेष्वथ ।। ३६.
सम्भूतः स समुद्रान्तर्हिरण्यकशिपोर्वधे। द्वितीयो नरसिंङोऽभूद्रुद्रः सुरपुरस्सरः ।। ३६.
बलिसंस्थेषु लोकेषु त्रेतायां सप्तमे युगे। दैत्यैस्त्रैलोक्य आक्रान्ते तृतीयो वामनोऽभवत् ।। ३६.
संक्षिप्यात्मानमङ्गेषु बृहस्पतिपुरस्सरम्। यजमानन्तु दैत्येन्द्रमदित्याः कुलनन्दनः। द्विजो भूत्वा शुभे काले बलिं वैरोचनम्पुरा ।। ३६.
त्रैलोक्यस्य भवान् राजा त्वयि सर्व्वं प्रतिष्ठितम्। दातुमर्हसि मे राजन् विक्रमांस्त्रीनिति प्रभुः ।। ३६.