ततः समागतान् दृष्ट्वा बृहस्पतिरुवाच तान्। स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ।। ३६.
अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा। ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ।। ३६.
पूर्णकामस्तदा तस्मिन् समये दशवार्षिके। ययौ च समकालं स सद्योत्पन्नमतिस्तदा ।। ३६.
समयान्ते देवयानी सद्यो जाता सुता तदा। बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ।। ३६.
देवि गच्छामहे द्रष्टुं तव याज्यान् शुचिस्मिते। विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ।। ३६.
एवमुक्ताऽब्रवीद्देवी भज भक्तान् महाव्रत। एष ब्रह्मन् सतां धर्मो न धर्मं लोपयामि ते ।। ३६.
ततो गत्वासुरान् दृष्ट्वा देवाचार्येण धीमता। वाञ्चितान् काव्यरूपेण वेधसाऽसुरमब्रवीत् ।। ३६.
काव्यं मां तात जानीध्वं एष ह्याङ्गिरसो भुवि। वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ।। ३६.
श्रुत्वा तथा ब्रुवाणन्तं सम्भ्रान्ता दितिजास्ततः। प्रेक्षन्ते स्म ह्युभौ तत्र सितासितशुचिस्मितौ ।। ३६.
सम्प्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन। ततस्तेषु प्रमूढेषु काव्यस्तान् पुनरब्रवीत् ।। ३६.
आचार्य्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः। अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ।। ३६.
एवमुक्तासुराः सर्वे तावृभौ समवैक्षत। तदाऽसुरा विशेषन्तु न व्यजानंस्तयोर्द्वयोः ।। ३६.
बृहस्पतिरुवाचैतानसम्भ्रान्तोऽयमङ्गिराः। काव्योऽहं यो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ।। ३६.
स मोहयति रूपेण मामकेनैष वोऽसुराः। श्रुत्वा तस्य ततस्ते वै संमन्त्र्यार्थवचोऽब्रुवन् ।। ३६.
अयन्नो दश वर्षाणि सततं शास्ति वै प्रभुः। एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ।। ३६.
ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च। वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ।। ३६.
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः. अयङ्गुरुर्हितेऽस्माकं गच्छ त्वं नासि नो गुरुः ।। ३६.
भार्गवोऽङ्गिरसो वायं भवत्वेवैष नोगुरुः। स्थिता वयं निदेशेऽस्य गच्छत्वं साधु मा चिरम् ।। ३६.
एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम्। यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ।। ३६.
चुकोप भार्गवस्तेषामवलेपेन वै तदा। बोधिता हि मया यस्मान्न मां भजत दानवाः ।। ३६.
तस्मात् प्रनष्ट संज्ञां वै पराभवङ्गमिष्यथ। इदि व्याहृत्य तान् काव्यो जगामाथ यथागतम् ।। ३६.
ज्ञात्वाऽभिशस्तानसुरान् काव्येन तु बृहस्पतिः। कृतार्थः स तदा हृष्टः स्वं रूपं प्रत्यपद्यत। बुद्ध्वाऽसुरांस्तदा भ्रष्टान् कृतार्थोऽन्तरधीयत ।। ३६.
ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा। अहो धिग् वञ्चिताः स्मेह परस्परमथाब्रुवन् ।। ३६.
पृष्ठतो विमुखाश्चैव ताडिता वेधसा वयम्। दग्धाश्चैवोपयोगाच्च स्वेस्वे चार्थेषु मायया ।। ३६.
ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः। प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ।। ३६.
ततः काव्यं समासाद्य अभितस्थु रवाङ्मुखाः। तानागतान् पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ।। ३६.
मयापि बोधिताः काले यतो मां नाभिनन्दथ। ततस्तेनावलेपेन गता यूथं पराभवम् ।। ३६.
प्रह्लादस्तमथोवाच मानं त्वं त्यज भार्गव। स्वान् याज्यान् भजमानांश्च भक्तांश्चैव विशेषतः ।। ३६.
त्वया पृष्टा वयं तेन देवाचार्येण मोहिताः। भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ।। ३६.
यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन। अपध्याता स्त्वया ह्यद्य प्रवेक्ष्यामो रसातलम् ।। ३६.