एवमुक्ताऽऽब्रवीदनं तपसा ज्ञातुमर्हसि। चिकीर्षितं मे ब्रह्निष्ठत्वं हि वेत्थ यथातथम् ।। ३६.
एवमुक्तेऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा। माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ।। ३६.
मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि। अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि ।। ३६.
देवेन्द्रानलवर्णाभे वरारोहे सुलोचने। इमं वृणीष्व कामं ते मत्तो वै वल्गुभाषिणि ।। ३६.
एवं भवतु गच्छामो गृहान् वै मत्तकाशिनि । ततः स्वगृहमागम्य जयन्त्या सहितः प्रभुः ।। ३६.
स तया सं व सद्देव्या दश वर्षाणि भागशः। अदृश्यः सर्वभूतानां मायया संवृतस्तदा ।। ३६.
कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ।। ३६.
गता यदा न पश्यन्तो जयन्त्या संवृतं गुरुम्। दाक्षिण्यं तस्य तद्बुध्वा प्रतिजग्मुर्यथागतम् ।। ३६.
बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं चकार ह। पित्रर्थे दश वर्षाणि जयन्त्या हितकाम्यया ।। ३६.
बुद्ध्वा तदन्तरं सोऽथ दैत्यानामिव चोदितः। काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ।। ३६.
ततः समागतान् दृष्ट्वा बृहस्पतिरुवाच तान्। स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ।। ३६.
अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि सा। ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ।। ३६.
पूर्णकामस्तदा तस्मिन् समये दशवार्षिके। ययौ च समकालं स सद्योत्पन्नमतिस्तदा ।। ३६.
समयान्ते देवयानी सद्यो जाता सुता तदा। बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ।। ३६.
देवि गच्छामहे द्रष्टुं तव याज्यान् शुचिस्मिते। विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ।। ३६.
एवमुक्ताऽब्रवीद्देवी भज भक्तान् महाव्रत। एष ब्रह्मन् सतां धर्मो न धर्मं लोपयामि ते ।। ३६.
ततो गत्वासुरान् दृष्ट्वा देवाचार्येण धीमता। वाञ्चितान् काव्यरूपेण वेधसाऽसुरमब्रवीत् ।। ३६.
काव्यं मां तात जानीध्वं एष ह्याङ्गिरसो भुवि। वञ्चिता बत यूयं वै मयि शक्ते तु दानवाः ।। ३६.
श्रुत्वा तथा ब्रुवाणन्तं सम्भ्रान्ता दितिजास्ततः। प्रेक्षन्ते स्म ह्युभौ तत्र सितासितशुचिस्मितौ ।। ३६.
सम्प्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन। ततस्तेषु प्रमूढेषु काव्यस्तान् पुनरब्रवीत् ।। ३६.
आचार्य्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः। अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ।। ३६.
एवमुक्तासुराः सर्वे तावृभौ समवैक्षत। तदाऽसुरा विशेषन्तु न व्यजानंस्तयोर्द्वयोः ।। ३६.
बृहस्पतिरुवाचैतानसम्भ्रान्तोऽयमङ्गिराः। काव्योऽहं यो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ।। ३६.
स मोहयति रूपेण मामकेनैष वोऽसुराः। श्रुत्वा तस्य ततस्ते वै संमन्त्र्यार्थवचोऽब्रुवन् ।। ३६.
अयन्नो दश वर्षाणि सततं शास्ति वै प्रभुः। एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ।। ३६.
ततस्ते दानवाः सर्वे प्रणिपत्याभिवाद्य च। वचनं जगृहुस्तस्य चिराभ्यासेन मोहिताः ।। ३६.
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः. अयङ्गुरुर्हितेऽस्माकं गच्छ त्वं नासि नो गुरुः ।। ३६.
भार्गवोऽङ्गिरसो वायं भवत्वेवैष नोगुरुः। स्थिता वयं निदेशेऽस्य गच्छत्वं साधु मा चिरम् ।। ३६.
एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम्। यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ।। ३६.
चुकोप भार्गवस्तेषामवलेपेन वै तदा। बोधिता हि मया यस्मान्न मां भजत दानवाः ।। ३६.