साद्याय शरभायैव शूलिने च त्रिचक्षुषे। सोमपायाज्यपायैव धूमपायोष्मपाय च ।। ३५.
शुचये रेरिहाणाय सद्योजाताय मृत्यवे। पिशिताशाय खर्वाय मेधाय वैद्युताय च ।। ३५.
व्याश्रिताय श्रविष्टाय भारतायान्तरिक्षये। क्षमाय सह मानाय सत्याय तपनाय च ।। ३५.
त्रिपुरघ्नाय दीप्ताय चक्राय रोमशाय च। तिग्मायुधाय मेध्याय सिद्धाय च पुलस्तये ।। ३५.
रोचमानाय खण्डाय स्फीताय ऋषभाय च। भोगिने पुञ्जमानाय शान्तायैवोर्द्ध्वरेतसे ।। ३५.
अघघ्नाय मख्घ्नाय मृत्यवे यज्ञियाय च। कृशानवे प्रचेताय वह्नये किशलाय च ।। ३५.
सिकत्याय प्रसन्नाय वरेण्यायैव चक्षुषे। क्षिप्रेगवे सुधन्वाय प्रमेध्याय प्रियाय च ।। ३५.
रक्षोघ्नाय पशुघ्नाय विघ्नाय शयनाय च। विभ्रान्ताय महन्ताय अन्तये दुर्गमाय च ।। ३५.
दक्षाय च जघन्याय लोकानामीश्वराय च। अनामयाय चोर्द्ध्वाय संहत्याधिष्ठिताय च ।। ३५.
हिरण्यबाहवे चैव सत्याय शमनाय च। असिकल्याय माघाय रीरिण्यायैकचक्षुषे ।। ३५.
श्रेष्ठाय वामदेवाय ईशानाय च धीमते। महाकल्पाय दीप्ताय रादेनाय हसाय च ।। ३५.
वृतधन्वने कविचिने रथिने च वरूथिने। भृगुनाथाय शुक्राय वह्निरिष्टाय धीमते ।। ३५.
अघाय अघशंसाय विप्रियाय प्रियाय च । दिग्वासःकृत्तिवासाय भगघ्नाय नमोऽस्तु ते ।। ३५.
पशूनां पतये चैव भूतानां पतये नमः। प्रणने ऋग्यजुःसाम्ने स्वधायै च सुधाय च ।। ३५.
वषट्कारतमायैव तुभ्यमन्तात्मने नमः । स्रष्ट्रे धात्रे तथा होत्रे हर्त्रे च क्षपणाय च ।। ३५.
भूतभव्यभवायैव तुभ्यं कालात्मने नमः। वसवे चैव साध्याय रुद्रादित्याश्विनाय च ।। ३५.
विश्वाय मरुते चैव तुभ्यन्देवात्मने नमः। अग्निसोमर्त्विगिज्याय पशुमन्त्रौषधाय च ।। ३५.
दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ।। ३५.
अहिंसायाप्यलोभाय सुवेशायातिशाय च। सर्वभूतात्मभूताय तुभ्यं योगात्मने नमः ।। ३५.
पृथिव्यै चान्तरिक्षाय दिवाय च महाय च। जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ।। ३५.
अव्यक्तायाथ महते भूतायैवोन्द्रियाय च । तन्मात्राय महान्ताय तुभ्यं तत्त्वात्मने नमः ।। ३५.
नित्याय चार्थलिङ्गाय सूक्ष्माय चेतनाय च। शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः ।। ३५.
नमस्ते त्रिषु लोकेषु स्वरान्तेषु भवादिषु। सत्यान्तेषु महान्तेषु चतुर्षु च नमोऽस्तु ते ।। ३५.
नमःस्तोत्रे मया ह्यस्मिन् सदसद्व्याहृतं विभो। मद्भक्त इति ब्रह्मण्य सर्वन्तत् क्षन्तुमर्हसि ।। ३५.
सूत उवाच।। एवमाराध्य देवेशमीशानं नीललोहितम्। ब्रह्मेति प्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ।। ३६.
काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान् भवः। निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ।। ३६.
ततः सोऽन्तर्हिते तस्मिन् देवेशानुचरे तदा। तिष्ठन्तीं प्राञ्जलिर्भूत्वा जयन्तीमिदमब्रवीत् ।। ३६.
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता। महता तपसा युक्तं किमर्थं माञ्जुगोपसि ।। ३६.
अनया सततं भक्त्या प्रश्रयेण दमेन च। स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ।। ३६.
किमिच्छसि वरारेहे कस्ते कामः समृध्यताम्। तं ते संपूरयाम्यद्य यद्यपि स्यात् सुदुर्लभम् ।। ३६.